1-3-81 प्रात् वहः धातवः कर्तरि कर्तरि परस्मैपदम्
<<वह प्रापणे>> स्वरितेत्। तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। प्रपूर्वाद् वहतेः परस्मैपदं भवति। प्रवहति, प्रवहतः, प्रवहन्ति। प्रादिति किम्? आवहते॥
प्रवहति ॥
प्रवहति॥
<<प्राद्वहः>> - प्रद्वहः । प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः । वहेः स्वरितेत्त्वात्कर्तृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् ।