अभिप्रत्यतिभ्यः क्षिपः

1-3-80 अभिप्रत्यतिभ्यः क्षिपः धातवः कर्तरि कर्तरि परस्मैपदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<क्षिप प्रेरणे>> स्वरितेत्। ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। अभि प्रति अति इत्येवंपूर्वात् क्षिपः परस्मैपदं भवति। अभिक्षिपति। प्रतिक्षिपति। अतिक्षिपति। अभिप्रत्यतिभ्य इति किम्? आक्षिपते। द्वितीयमपि कर्तृग्रहणमनुवर्तते। तेनेह न भवति — अभिक्षिप्यते स्वयमेव॥

Siddhanta Kaumudi

Up

क्षिपप्रेरणे । स्वरितेत् । अभिक्षिपति ॥

Laghu Siddhanta Kaumudi

Up

क्षिप प्रेरणे स्वरितेत्। अभिक्षिपति॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अभिप्रत्यतिभ्यः क्षिपः>> - अभिप्रति ।परस्मैपद॑मिति शेषः । स्वरितेदिति । ततश्च कर्तृगामिनि फले आत्मनेपदे प्राप्ते अनेन तत्रापि परस्मैपदमिति भावः । अभिक्षिपतीति । प्रतिक्षपति अतिक्,िपतीत्यप्युदाहार्यम् ।

Padamanjari

Up