समुदाङ्भ्यो यमोऽग्रन्थे

1-3-75 समुदाङ्भ्यः यमः अग्रन्थे धातवः आत्मनेपदम् कर्तरि कर्त्रभिप्राये क्रियाफले

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्त्रभिप्राय इति वर्तते। सम् उद् आङ्इत्येवंपूर्वाद् यमेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति, ग्रन्थविषयश्चेत् प्रयोगो न भवति। व्रीहीन् संयच्छते। भारमुद्यच्छते। वस्त्रमायच्छते। आङ्पूर्वादकर्मकाद् <<आङो यमहनः>> १.३.२८ इति सिद्धमेवात्मनेपदम्, सकर्मकार्थमिदं पुनर्ग्रहणम्। अग्रन्थ इति किम्? उद्यच्छति चिकित्सां वैद्यः। कर्त्रभिप्राय इत्येव — संयच्छति। उद्यच्छति। आयच्छति॥

Siddhanta Kaumudi

Up

अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<समुदाङ्भ्यो यमोऽग्रन्थे>> - समुदाङ्भ्यो । सम्, उत्, आङ् एतत्पूर्वादग्रन्थविषयकाद्यमेरात्मनेपदमित्यर्थः । व्रीहीन्संयच्छते इति । संगृह्णातीत्यर्थः । भारमुद्यच्छते इति । उदृह्णातीत्यर्थः । वरुआमायच्छते इति । कटआदौ निबध्नातीत्यर्थः । कत्र्रभिप्राये इत्येवेति । व्रीहीन् संयच्छतीति । परार्थं संगृह्णातीत्यर्थः । 'आङो यमहनः' इत्येव सिद्धे आड्ग्रहणं सकर्मकार्थम्, तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् ।

Padamanjari

Up