अनुपसर्गाज्ज्ञः

1-3-76 अनुपसर्गात् ज्ञः धातवः आत्मनेपदम् कर्तरि कर्त्रभिप्राये क्रियाफले

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्त्रभिप्राय इति वर्तते। अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति। गां जानीते। अश्वं जानीते। अनुपसर्गादिति किम्? स्वर्गं लोकं न प्रजानाति मूढः। कर्त्रभिप्राय इत्येव — देवदत्तस्य गां जानाति॥

Siddhanta Kaumudi

Up

गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अनुपसर्गाज्ज्ञः>> - अनुपसर्गाज्ज्ञः । अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः ।अकर्मकाच्चे॑त्येव सिद्धे सकर्मकार्थमिदम् । तदाह — गां जानीते इति । कथमिति । अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतयाअकर्मकाच्चे॑त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः । समाधत्ते — कर्मणि लिडिति । तथा चभावकर्मणोटरित्यात्मनेपदमिति भावः । सुतस्य गमनमनुज्ञातमित्यर्थः फलति । नन्वेवं सति 'नृप' इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह — नृपेणेति विपरिणाम इति । अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः ।

Padamanjari

Up

सकर्मकार्थमिदम्, अन्यत्र ठकर्मकाच्चऽ इति सिद्धत्वात्। गां जानीत इति ।स्वर्ग लोकं न प्रतिजानातीति।'संप्रतिभ्यामनाध्याने' इत्यनेनापि न भवति; आध्यानविषयत्वात्। प्रजानातीति वा पाठः॥