1-3-73 अपात् वदः धातवः आत्मनेपदम् कर्तरि कर्त्रभिप्राये क्रियाफले
कर्त्रभिप्राय इति वर्तते। अपपूर्वाद् वदतेः कर्त्रभिप्राये क्रियाफल आत्मनेपदं भवति॥ धनकामो न्यायमपवदते। न्यायापवादेन धनमर्जयिष्यामीति मन्यते। कर्त्रभिप्राये क्रियाफल इत्येव — अपवदति॥
न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । णिचश्च <{SK2564}> कारयते ॥
<<अपाद्वदः>> - अपाद्वदः । अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायमपवदते इति । वचनेने निरस्यतीतय्र्थः ।किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः॑ इति न्यायात् ।