1-3-70 लियः सम्माननशालीनीकरणयोः च धातवः आत्मनेपदम् कर्तरि णेः प्रलम्भने
णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। <<लीङ् श्लेषणे>> इति दिवादौ पठ्यते, <<ली श्लेषणे>> इति च क्र्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। लियो ण्यन्तात् संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति, चशब्दात् प्रलम्भने च। संमाननं पूजनम्। शालीनीकरणं न्यग्भावनम्। जटाभिरालापयते। पूजां समधिगच्छतीत्यर्थः। श्येनो वर्तिकामुल्लापयते। न्यक्करोतीत्यर्थः। प्रलम्भने — कस्त्वा — मुल्लापयते। विसंवादयतीत्यर्थः। <<विभाषा लीयतेः>> ६.१.५१ इति वात्वं विधीयते। तदस्मिन् विषये नित्यमन्यत्र विकल्पः। व्यवस्थितविभाषा हि सा। संमाननादिष्विति किम्? बालकमुल्लापयति॥
लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यारदकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वार्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥
<<लियः सम्माननशालीनीकरणयोश्च>> - लियः संमानन । 'लिय' इतिलीलीङोग्र्रहणम् । 'अनुदात्तङितः' इत्यत् आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते ।णिचश्चे॑ति सिद्देऽकत्र्रभिप्रायार्थमिदम् । संमाननं - पूजालाभः । शालिनीकरणम् - अभिनवः । चकारात्गृधिवच्च्यो॑रितिपूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते । तदाह — लीङ्लियोरित्यादिना ।
विशेषाभावादिति। निरनुबन्धकपरिभाषा तु'वामदेवाद् ड।ल्ड्ड।लै' इत्यत्र ज्ञापिता प्रत्ययग्रहणविषयैवेति मन्यते। संमानने शालीनीकरणे च वर्तमानादिति। संमाननं विषयः,न धात्वर्थः। यदाह - पूजामधिगच्छतीत्यर्थ इति। धात्वर्थे तु पूजयतीति वाच्यं स्यात्, यथा न्यक्करोतीत्यर्थ इति। अकर्मकश्चायचमस्मिन् प्रयोगे पूजाख्यस्य कर्मण आत्मनेपदसहितेन धातुनैवोपातत्वात् पुत्रीयतीतिवदित्याहुः। जटाभिरिति। हेतौ तृतीया, यस्य हि जटाः सन्ति लोके स पूज्यते॥