1-3-71 मिथ्योपपदात् कृञः अभ्यासे धातवः आत्मनेपदम् कर्तरि णेः
णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। ण्यन्तात् करोतेर्मिथ्योपपदादात्मनेपदं भवत्यभ्यासे। अभ्यासः पुनः पुनः करणम्, आवृत्तिः। पदं मिथ्या कारयते। सापचारं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः। मिथ्योपपदादिति किम्? पदं सुष्ठु कारयति। कृञ इति किम्? पदं मिथ्या वाचयति। अभ्यास इति किम्? पदं मिथ्या कारयति। सकृदुच्चारयति॥
णेरित्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयीत्यर्थः । मिथ्योपपदात्किम् । पदं सुष्ठु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति । स्वरितञितः कर्त्रभिप्राये क्रियाफले <{SK2158}> । यजते । सुनुते । कर्त्रभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ॥
<<मिथ्योपपदात् कृञोऽभ्यासे>> - मिथ्योपपदात् । अभ्यासवृत्तेर्मिथ्याशब्दोपपदकात्कृञ आत्मनेपदमित्यर्थः । इत ऊध्र्वंणे॑रिति निवृत्तम् ।
उपोच्चारितं पदमुपपदम्,मिथ्याशब्द उपपदंयस्य स तथोक्तः। मिथ्या कारयते इति आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात्'नित्यवीप्सयोः' इति द्विर्वचनं न भवति। सदोषमिति। एतेन मिथ्याशब्दस्यार्थमाचष्टे। अस्यैव विवरणम्-स्वरादिदुष्टमिति। आदिशब्देन रूपं गृह्यते। असकृदिति अभ्यासं दर्शयति। उच्चारयतीत्यर्थ इति ण्यन्तस्य करोतेरुच्चारणे वृत्तिरनेकार्थत्वाद्धातूनाम्। एवं च प्रकृतिभूतः करोतिरुच्चारणे वर्तते, अकर्मकश्च॥