भीस्म्योर्हेतुभये

1-3-68 भीस्म्योः हेतुभये धातवः आत्मनेपदम् कर्तरि णेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णेरिति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। बिभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये। हेतुः प्रयोजकः कर्ता लकारवाच्यः, ततश्चेद् भयं भवति। भयग्रहणमुपलक्षणार्थम्। विस्मयोऽपि तत एव। जटिलो भीषयते। मुण्डो भीषयते। जटिलो विस्मापयते। मुण्डो विस्मापयते। हेतुभय इति किम्? कुञ्चिकयैनं भाययति। रूपेण विस्माययति। अत्र कुञ्चिका भयस्य करणम्, न हेतुः॥

Siddhanta Kaumudi

Up

ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भीस्म्योर्हेतुभये>> - भीस्म्योर्हेतुभये ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते । हेतुः- प्रयोजकः । तदाह - आभ्यां ण्यन्ताभ्यामित्यादि अकत्र्रभिप्रायार्थमिदम् । ननु हेतोश्चेद्भयस्मयावित्यनुवपपन्नं, सूत्रे स्मयग्रहणाऽभावादित्यत आह — सूत्रे भयेति । सूत्रे भयग्रहणं स्मिङ्घात्वर्थस्य स्मयस्याप्युलक्षणमित्यर्थः । मुण्डो भापयते इति । अत्र आत्त्वं पुक्, आत्मनेपदं च । भिय आत्त्वाऽभावपक्षे विशेषमाह —

Padamanjari

Up

भयमनिष्टापातशङ्गासाधनमात्रं लोकिको हेतुः, न वान्तरेण साधनं क्रिया सम्भवतीति विशेषणसामर्थ्यात् कृत्रिमत्वाच्च पारिभाषिकस्य हेतोर्ग्रहणमित्याह - हेतुः प्रयोजक इत्यादि। ततश्चेद्भयं भवतीति। यद्येवम्, स्मयत्यर्थो न विशेषितः स्यात्, न हि स्मयतेर्भयमर्थः, अऽत आह-भयग्रहणमिति। चितविकारस्योपलक्षणमित्यर्थः। विस्मयोऽपि तत एवेति। अत्र चेद्भवतीत्यनुषङ्गः। भीषयत इति।'भियो हेतुभये षुक्' । भाययत इति 'बिभेतेर्हेतुभये' इति वैकल्पिकमात्वम्। एवं च अत्र षुक् न भवति; तद्विधावाकारप्रश्लेषात्। विस्मापयत इति।'नित्यं स्मयतेः' इत्यात्वम्। ठर्तिह्रीऽ इत्यादिना पुक्। कुञ्चिकयेति। कारणादत्र भयम्, न हेतोः। यद्यपि तद्व्यापारे णिज्विधानात् प्रयोजकसाध्यमेव भयम्, तथापि विशेषणोपादानसामर्थ्यादेवं विज्ञायते-अन्यनिरपेक्षाद्धेतोरेव यद्भयमिति। एवं च मौण्ड।ल्èनं भाययतीत्यत्रापि गुणगुणिनोर्भेदविवक्षायां न भवति। उदाहरणे तु तादात्म्यस्य विवक्षितत्वाद्धेतोरेव भयम्॥