1-3-65 समः क्ष्णुवः धातवः आत्मनेपदम् कर्तरि
<<क्ष्णु तेजने>> परस्मैपदी। ततः संपूर्वादात्मनेपदं भवति। <<समो गम्यृच्छि०>> १.३.२९ इत्यत्रैव कस्मान्न पठितः? अकर्मकादिति तत्र वर्तते। संक्ष्णुते शस्त्रम्, संक्ष्णुवाते, संक्ष्णुवते॥
संक्ष्णुते शस्त्रम् ॥
<<समः क्ष्णुवः>> - समः क्ष्णुवः ।आत्मनेपद॑मिति शेष॒समो गम्यृच्चिभ्या॑मित्यत्रैवसमो गम्यृच्छिक्ष् णुव॑ इति न सूत्रितं , तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान्न स्यात् । तत्सूचयन्नुदाहरति — संक्ष्णुते शस्त्रमिति । तीक्ष्णीकरोतीत्यर्थः ।
इह'शर्परे विसर्जनीयः' इत्यस्यावकाशो यत्र कुप्वोरसम्भवः-पुरुषः त्सरुकः;'कुप्वोःः कः पौ च' इत्यस्य यत्र शर्परौ कुपू न सम्भवतः- पुरुषः करोतीति; शर्परयोरुभयोः प्रसङ्गे पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति'शर्परे विसर्जनीयः' इति नित्यं विसर्जनीय एव भवति । तेन'समः क्ष्णुवः' न कर्तव्यमिति भावः। संक्ष्णुवत इति। अदादित्वाच्छपो लुक्, ठात्मनेपदेष्वनतःऽ इति झस्यादादेशः,ठचि श्नुधातुऽइत्यादिनोवङ्॥