भुजोऽनवने

1-3-66 भुजः अनवने धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<भुज पालनाभ्यवहारयोः>> इति रुधादौ पठ्यते। तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवित। भुङ्क्ते, भुञ्जाते, भुञ्जते। अनवन इति किम्? भुनक्त्येनमग्निराहितः। अवनप्रतिषेधेन रौधादिकस्यैव ग्रहणं विज्ञायते, न तौदादिकस्य <<भुजो कौटिल्ये>> इत्यस्य। तेनेह न भवित — विभुजति पाणिम्॥

Siddhanta Kaumudi

Up

ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ॥

Laghu Siddhanta Kaumudi

Up

तङानौ स्तः । ओदनं भुङ्क्ते । अनवने किम् ? महीं भुनक्ति ॥ {$ {! 21 ञिइन्धी !} दीप्तौ $} <{07.0011}> ॥ इन्द्धे । इन्धाते । इन्धते । इन्त्से । इन्ध्वे । इन्धाञ्चक्रे । इन्धिता । इन्धाम् । इन्धाताम् । इनधै । ऐन्ध । ऐन्धाताम् । ऐन्धाः ॥ {$ {! 22 विद !} विचारणे $} <{07.0013}> ॥ विन्दे । वेत्ता ॥ इति रुधादयः ॥ ७ ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भुजोऽनवने>> - भुजोऽनवने । अवनं -रक्षणम् । ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः । ननु भुज पालनाऽब्यवहारयो॑ रिति धातुपाठे स्थितम् । तत्रबुभुजे पृथिवी॑मित्यत्र न पालनमर्थः । तथा सति 'अनवने' इति पर्युदासादात्मनेपदाऽयोगात् । नाप्यभ्यवहरणम्, असंभवात् । नहि पृथिव्या अभ्यवहरणं संभवति । तथावृद्धो जनो दुःखशतानि भुङ्क्ते॑ इत्पि न युज्यते, दुःखशतानां पालनस्य अभ्यवहरणस्य चाऽसंभवात् । तत्राह — इह उपभोगो भुजेरर्थ इति । धातूनामनेकार्थकत्वादिति भावः । महीं भुनक्तीति । रक्षतीत्यर्थः । अत्र रौधादिकस्यैवभुज पालनाभ्यवहारयो॑रित्यस्य ग्रहणम् — नतु 'भुजो कौटिल्ये' इति तौदादिकस्याऽपीति भाष्यम् । भुजति वासः = कुटिली भवतीत्यर्थः ।

Padamanjari

Up

अनवनप्रतिषेधेनेत्यादि। संसर्गवद्विप्रयोगोऽपि विशेषस्मृतिहेतुः। यथा दोग्ध्रीपर्यायो धेनुशब्दः संसर्गिभिः विशेषेऽवस्थाप्यते - सवत्सा धेनुरानीयतां सकिशोरा सवर्करेति, तथाऽवत्साऽकिशोराऽवर्करेति। यस्या आनयने द्दष्टः संसर्गः सैव तत्र गृहीता आनीयते; तद्वदिहापीत्यर्थः॥