म्रियतेर्लुङ्लिङोश्च

1-3-61 म्रियतेः लुङ्लिङोः च धातवः आत्मनेपदम् कर्तरि

Kashika

Up

index: 1.3.61 sutra: म्रियतेर्लुङ्लिङोश्च


म्र्ङ् प्राणत्यागे। ङित्त्वादात्मनेपदमत्र सिद्धम् एव। नियमार्थम् इदं वचनम्। म्रियतेर्लुङ्लिङोः शितश्चाऽत्मनेपदं भवति, अन्यत्र न भवति। अमृत। मृषीष्ट। शितः खल्वपि म्रियते, म्रियेते, म्रियन्ते। नियमः किमर्थः? मरिश्यति। अमरिस्यत्।

Siddhanta Kaumudi

Up

index: 1.3.61 sutra: म्रियतेर्लुङ्लिङोश्च


लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ॥ अथ परस्मैपदिनः सप्त ॥{$ {!1404 रि!} {!1405 पि!} गतौ$} । अन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता ।{$ {!1406 धि!} धारणे$} ।{$ {!1407 क्षि!} निवासगत्योः$} ।{$ {!1408 षू!} प्रेरणे$} । सुवति । सविता ।{$ {!1409 कॄ!} विक्षेपे$} । किरति । किरतः । चकार । चकरतुः । करिता । करीता । कीर्यात । अकारीत् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.3.61 sutra: म्रियतेर्लुङ्लिङोश्च


लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र। रिङ्। इयङ्। म्रियते। ममार। मर्ता। मरिष्यति। मृषीष्ट। अमृत॥ {$ {! 43 पृङ् !} व्यायामे $} ॥ प्रायेणायं व्याङ्पूर्वः। व्याप्रियते। व्यापप्रे। व्यापप्राते। व्यापरिष्यते। व्यापृत। व्यापृषाताम्॥ {$ {! 44 जुषी !} प्रीतिसेवनयोः $} ॥ जुषते। जुजुषे॥ {$ {! 45 ओविजी !} भयचलनयोः $} ॥ प्रायेणायमुत्पूर्वः। उद्विजते॥

Balamanorama

Up

index: 1.3.61 sutra: म्रियतेर्लुङ्लिङोश्च


म्रियतेर्लुङ्लिङोश्च - म्रियतेः । अनुदात्तहितः॑ इत्यत आत्मनेपदमित्यनुवर्तते । चकारेण 'शदेः शितः' इत्यतः शित इत्यनुकृष्यते । प्रकृतिभूतादित्यध्याहार्यम् । तदाह - लुङ्लिङोरिति । तङ् स्यादिति । आत्मनेपदं स्यादित्यर्थः, 'म्रियमाण' इत्यत्र आनस्यापि इष्टत्वात् । ननु हित्त्वादेव सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमित्याह - नान्यत्रेति । तर्हि ङित्त्वं व्यर्थमित्यत आह — ङित्त्वं स्वरार्थमिति ।तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त॑मित्येतदर्तमित्यर्थ- । म्रियते इति । शे कृते रिङियङाविति भावः । ऋदन्तत्वाद्भारद्वाजमतेऽपि नेडित्याह — ममर्थेति । मम्रिवेति । क्रादिनियमादिट् । मर्ता । 'ऋद्धनोः स्ये' इति इटं मत्वाह - मरिष्यतीति । रि पि गताविति । द्वाविमावनिटौ । ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्य आह- अन्तरह्गत्वादियङिति । कृ विक्षेपे इति । दीर्घानतोऽयं , सेट् । किरतीति ।ऋत इद्धातो॑रितीत्त्वं । रपत्वम् । चकरतुरिति । कित्त्वेऽपिऋच्छत्यृता॑मिति गुण इति भावः ।वृतो वे॑ति मत्वाह - करिता करीतेति ।

Padamanjari

Up

index: 1.3.61 sutra: म्रियतेर्लुङ्लिङोश्च


लुङ्लिङेः इति स्थानषष्ठीयम्, विषयसप्तमी वा। नियमार्थमिति। यदि नियमः क्रियते, ङ्त्किरणं किमर्थम्, यावताऽप्राप्ते विधिरवास्तु? इह मा हि मृतेति लुङ्'तास्यिनुदातेत्' इति ङ्ल्लिक्षणः सार्वधातुकनिघातो यथा स्यात्। तिङ्निघातोऽत्र'हि च' इति प्रतिषिद्धः॥