शदेः शितः

1-3-60 शदेः शितः धातवः आत्मनेपदम् कर्तरि

Kashika

Up

index: 1.3.60 sutra: शदेः शितः


शद्लृ शातने परस्मैपदी, तस्मादात्मनेपदं विधीयते। शदिर्यः शित्, शिद्भावी, शितो वा सम्बन्धी तस्मादात्मनेपदं भवति। शीयते, शीयेते, शीयन्ते। शितः इति किम्? अशत्स्यत्। शत्स्यति। शिशत्सति।

Siddhanta Kaumudi

Up

index: 1.3.60 sutra: शदेः शितः


शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् ।{$ {!856 क्रुश!} आह्वाने रोदने च$} । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् ।{$ {!857 कुच!} संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु$} । कोचति । चुकोच ।{$ {!858 बुध!} अवगमने$} । बोधति । बोधिता । बोधिष्यति ।{$ {!859 रुह!} बीजजन्मनि प्रादुर्भावे च$} । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् ।{$ {!860 कस!} गतौ$} । अकासीत् । अकसीत् ॥ 7 ॥ वृत् । ग्वलादिगणः समाप्तः ॥ अथ गूहत्यन्ताः स्वरितेतः ।{$ {!861 हिक्क!} अव्यक्ते शब्दे$} । हिक्कति । हिक्कते ।{$ {!862 अञ्चु!} गतौ याचने च$} । अञ्चिति । अञ्चते । अचु इत्येके । अचि इत्यपरे ।{$ {!863 टुयाचृ!} याचनायाम्$} । याचति । याचते ।{$ {!864 रेटृ!} परिभाषणे$} । रेटति । रेटते ।{$ {!865 चते!} {!866 चदे!} याचने$} । चचात । चेते । अञ्चातीत् । चचाद । चेदे । अचदीत् ।{$ {!867 प्रोथृ!} पर्याप्तौ $}। पुप्रोथ । पुप्रोथे ।{$ {!868 मिदृ!} {!869 मेदृ!} मेधाहिंसनयोः $}। मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः ।{$ {!870 मेधृ!} सङ्गमे च$} । मेधति । मिमेध ।{$ {!871 णिदृ!} {!872 णेदृ!} कुत्सासन्निकर्षयोः$} । निनेद । निनिदतुः । निनिद । निनेदे ।{$ {!873 शृधु!} {!874 मृधु!} उन्दने$} । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते ।{$ {!875 बुधिर्!} बोधने$} । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजन-<{SK2328}> इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् ।{$ {!876 उबुन्दिर्!} निशामने$} । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् ।{$ {!877 वेणृ!} गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु$} । वेणति । वेणते । नान्तोप्ययम् ।{$ {!878 खनु!} अवदारणे$} । खनति । खनते ॥

Laghu Siddhanta Kaumudi

Up

index: 1.3.60 sutra: शदेः शितः


शिद्भाविनोऽस्मात्तङानौ स्तः। शीयते। शीयताम्। अशीयत। शीयेत। शशाद। शत्ता। शत्स्यति। अशदत्। अशत्स्यत्॥ {$ {! 39 कॄ !} विक्षेपे $} ॥

Balamanorama

Up

index: 1.3.60 sutra: शदेः शितः


शदेः शितः - शदेः शितः । 'अनुदात्तङित' इत्यस्मादात्मनेपदमित्यनुवर्तते । श् इत् यस्य स शित् । शप् विवक्षितः ।शिति विवक्षिते सतीत्यर्थः, तिङुत्पत्तेः पूर्वं सार्वधातुकाश्रयस्य शपोऽसंभवात् । तदाह — शिद्भाविन इति । शित् भावी = भविष्यन् यस्मात्स शिद्भावी, तस्मादित्यर्थः । शीयते इति । शपि शदेः शीयादेशः । विशीर्यतीत्यर्थः । शीयेते शीयन्ते इत्यादि । 'शिद्विषया' दित्युक्तेर्लिटि नात्मनेपदम् ।इत्संज्ञकशकारादा॑वित्युक्तेर्न॑ शीयादेशः । विशीर्यतीत्यर्थः । तदाह — शशादेति । अनिट्कोऽयम् । क्रादिनियमप्राप्तस्य इटः 'उपदेशेऽत्वतः' इति नियमात्थलि भारद्वाजनियमाद्वेट् । तदाह — शेदिथ शशत्थेति च । इट्पक्षे 'थलि च सेटी' इत्येत्त्वाभ्यासलोपाविति भावः । शेदिव शेदिम । क्रादिनियमादिट् । अशददिति । लृदित्त्वादङिति भावः । क्रुशधातुरनिट्कः । चुक्रोशिथ । क्रादिनियमात्थलि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । चुक्रुशिव चुक्रुशिम । क्रोष्टेति । व्रश्चादिना शस्य षः ।षढो॑रिति षस्य कः, सस्य षत्वम् । कित्त्वान्न गुणः । कुच । 'कुच शब्दे' इति पठितस्य पुनरिह पाठः संपर्चनादावेव ज्वलादिकार्यणप्रत्ययार्थः । अर्थनिर्देशः क्वचित्पाणिनीय इति भूधातौ प्रपञ्चितम् । बुध इति । सेट्कोऽयम्, अनिट्सु श्यन्विकरणस्यैव बुधेग्र्रहणात् । तदाह — बोधिनेति । अबोधीत् । रुहधातुरनिट्कः । क्रादिनियमात्थल्यपि नित्यमिट् । अजन्ताऽकारवत्त्वाऽभावान्न भारद्वाजनियमः । रोढेति । लुटितासिगुणे ढत्वधत्वष्टुत्वढलोपाः । रोक्ष्यतीति । लृटि स्ये ढकषाः । अरुक्षदिति । इगुपधशलन्तत्वात् क्से ढकषाः । कित्त्वान्न गुणः । वृदिति । 'ज्वलितिकसन्तेभ्यः' इति उत्तराऽवधेरपि कसेग्र्रहणादेव सिद्धेर्वृत्करणं स्पष्टार्थमित्याहुः । इति ज्वलादयः । गूहत्यन्ता इति । 'गुहू संवरणे' इत्येतत्पर्यन्ता इत्यर्थः । चते चदे याचने । अचीदिति । एदित्त्वान्न वृद्धिः । एवमचदीत् । बुधिर् । 'बुध अवगमने' इति केवलपरस्मैपदी गतः । स तु ज्वलादिकार्यार्थः । अयं तु इरित् स्वरितेत् । अनिट्सु श्यन्विकरणस्यैव पाठादयं सेट् । अबुधदिति । इर इत्त्वेऽपि तदवयवस्य इकारस्य प्रत्येकमित्त्वेऽपि न नुम्,इदितो नु॑मित्यत्र कर्मधारयमाश्रित्य इत्संज्ञकेकारान्तस्यैव नुम्वधेः । पूर्वोत्तरेति । जन- पूरि- साहचर्येणेत्यर्थः । उ बुन्दिरित । आद्य उकार इत् — 'उदितो वे' ति क्त्वायामिड्विकल्पार्थः । अबुददिति । इरित्त्वादङि 'अनिदिता' नलोपः, इर इकारस्य प्रत्येकमित्संज्ञाविरहात्, अनिदितामित्यस्य इत्संज्ञकेकारान्तभिन्नानामित्यर्थाश्रयणाच्चेति शब्देन्दुशेखरे स्थितम् । वेणृ गतीति । वाद्यभाण्डस्य वादनार्थं ग्रहणं वादित्रग्रहणम् । खनुदातुरुदित् — क्त्वायामिड्विकल्पः ।

Padamanjari

Up

index: 1.3.60 sutra: शदेः शितः


यद्यत्र शदेः परो यः शित्, तत आत्मनेपदं भवतीत्येवं व्यधिकरणे पञ्चम्यावाश्रित्य व्याख्यायेत, ततोऽपि विकरणे सत्यनेन विधिना भवितव्यम्। सार्वधातुके च परतो विधीयते, ततश्च प्रागेवास्मद्विधेः सार्वधातुकं भवच्छेषत्वत्परस्मैपदं स्यात्, तस्मिंश्च सति तन्निमिते शिति विकरणे कृते परस्मैपदस्य निवृत्तिर्न सिद्ध्येत्। न हि निर्वृतस्य निर्वृत्तिर्वचनशतेनापि शक्यते कर्तुमिति-इमं व्यधिकरणपक्षे दोषं द्दष्ट्वा सामानाधिकरण्ये पञ्चम्याविति दर्शयन्नाह-शदिर्यः शिदिति। कथं पुनः शदिः शिद्भवती, विकरणे हि शकार इद् भवति, तत्राह-शिद्भावीति । शिद्भावी यस्मात् स तथोक्तः। शिद्भावित्वाद् उपचारेण शदिरेव शिदित्युक्तमित्यर्थः। शितो वा सम्बन्धीति ।'शितः' इत्यस्य षष्ठ।ल्न्ततां दर्शयति। कश्च शदिः शितः सम्बन्धी? यस्तस्य प्रकृतिः। प्रागेव च शिदुत्पत्तियोग्यतया तत्प्रकृतित्वमस्त्येव । शीयत इति । पाघ्रादिसूत्रेण शीयादेशः॥