प्रत्याङ्भ्यां श्रुवः

1-3-59 प्रत्याङ्भ्यां श्रुवः धातवः आत्मनेपदम् कर्तरि सनः

Kashika

Up

index: 1.3.59 sutra: प्रत्याङ्भ्यां श्रुवः


प्रति आङित्येवं पूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति। प्रतिशुश्रूषति। आशुश्रूषति। उपसर्गग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते।

Siddhanta Kaumudi

Up

index: 1.3.59 sutra: प्रत्याङ्भ्यां श्रुवः


आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रर्वचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः <{SK2362}> म्रियतेर्लुङलिङोश्च <{SK2538}> व्याख्यातम् ।

Balamanorama

Up

index: 1.3.59 sutra: प्रत्याङ्भ्यां श्रुवः


प्रत्याङ्भ्यां श्रुवः - प्रत्याङ्भ्यां श्रुवः । उक्तं नेति । आत्मनेपदं नेत्यर्थः । प्रत्याङाविहोपसर्गावेव गृह्रेते, व्याख्यानात् । तदाह — कर्मप्रवचनीयात्स्यादेवेति ।आत्मनेपद॑मिति शेषः । देवदत्तं प्रतीति ।लक्षणेत्थम्भूते॑ति प्तिः कर्मप्रवचनीयः ।

Padamanjari

Up

index: 1.3.59 sutra: प्रत्याङ्भ्यां श्रुवः


उपसर्गग्रहणं चेदमिति। परस्परसाहचर्यात्। देवदतं प्रतीति।'लक्षणेत्थंभूत' इत्यादिना प्रतिः कर्मप्रवचनीयः, नोपसर्गः॥