नानोर्ज्ञः

1-3-58 न अनोः ज्ञः धातवः आत्मनेपदम् कर्तरि सनः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वेण योगेन प्राप्तमात्मनेपदं प्रतिषिध्यते। अनुपूर्वाज् जानातेः सन्नन्तादात्मनेपदं न भवति। तथा च सति सकर्मकस्यैवायं प्रतिषेधः संपद्यते। पुत्रमनुजिज्ञासति। अनोरिति किम्? धर्मं जिज्ञासते॥

Siddhanta Kaumudi

Up

पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । [(परिभाषा - ) अनन्तरस्य] इति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । पूर्ववत्सनः <{SK2734}> इति तङ् । अकर्मकाच्च <{SK2718}> इति केवलाद्विधानात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नानोर्ज्ञः>> - नानोर्ज्ञः । अनुपूर्वाज्ज्ञाधातोः सन्नन्तान्नात्मनेपदमित्यर्थः । पुत्रमनुजिज्ञासतीति । अनुज्ञातुमिच्छतीत्यर्थः । ननु सर्पिषा प्रवर्तितुमिच्छतीत्यर्थेसर्पिषोऽनुजिज्ञासते॑ ईत्यत्रापिअपह्नवे ज्ञः॑,अकर्मकाच्चे॑त्यात्मनेदस्याप्यनेन निषेधे सति सन्नन्तात्परस्मैपदमेव स्यादित्यत आह — पूर्वसूत्रस्थेवेति । एवं चसर्पिषोऽनुजिज्ञासते॑ इत्यत्रअकर्मकाच्चे॑त्यात्मनेपदं निर्बाधमिति भावः । ननुअकर्मकाच्चे॑ति ज्ञाधातोरात्मनेपदे सन्नन्तात्कथममात्मनेपदलाभ इत्यत आङ — पूर्ववदिति । केवलात्सन्विहीनाज्ज्ञाधातोरात्मनेपदविधानात्सन्न्नतादपि तस्मात् 'पूर्ववत्सनः' इत्यात्मनेपदमित्यर्थः ।

Padamanjari

Up

पूर्वेणेति। अनन्तरसूत्रेण यत्प्राप्तं तत्प्रतिषिध्यते, कुत एतत्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति। तथा चेति। अनन्तरस्य प्रतिषेध इत्युक्तम्, एवं सति सकर्मकस्यैवायं प्रतिषेधः सम्पद्यते, अनन्तरयोगस्य सकर्मकविषयत्वाद्, अकर्मकाविषयत्वाद् ठकर्मकाच्चऽ इति प्रागेव विहितत्वात्। तेनाकर्मकात्'पूर्ववत्सनः' इत्यात्मनेपदं भवत्येव-औषधस्यानुजिज्ञासत इति। औषधेन प्रवर्तितुमिच्छतीत्यर्थः॥