ज्ञाश्रुस्मृदृशां सनः

1-3-57 ज्ञाश्रुस्मृदृशां सनः धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ज्ञा श्रु स्मृ दृश् इत्येतेषां सन्नन्तानामात्मनेपदं भवति। तत्र जानातेः <<अपह्नवे ज्ञः>> १.३.४४ इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि <<समो गम्यृच्छि०>> १.३.२९ इत्यत्र विहितम्। तस्मिन् विषये <<पूर्ववत् सनः>> १.३.६२ इत्येव सिद्धमात्मनेपदम्, ततोऽन्यत्रानेन विधीयते। स्मरतेः पुनरप्राप्त एव विधानम्। धर्मं जिज्ञासते। गुरुं शुश्रूषते। नष्टं सुस्मूर्षते। नृपं दिदृक्षते। सन इति किम्? जानाति। शृणोति। स्मरति। पश्यति॥

Siddhanta Kaumudi

Up

सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ज्ञाश्रुस्मृदृशां सनः>> - ज्ञानश्र । प्राग्वदिति । आत्मनेपदमित्यर्थः । यद्यपिअपह्नवे ज्ञः, 'अकर्मकाच्च'सम्प्रतिभ्यानाध्याने॑ इति सूत्रैः,अर्तिश्रुदृशिभ्यश्चे॑ति वार्तिकेन च ज्ञादिभ्य आत्मनेपदे कृते 'पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम्,तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थं ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति — धर्मं जिज्ञासते इति । ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति ।अज्झनगमां सनी॑ति दीर्घः ।इको झ॑लिति सनः कित्त्वम् ।श्र्युकः किती॑ति इण्निषेधः । सुस्मूर्षते इति । स्मृधातोः सनिअज्झने॑ति दीर्घेउदोष्ठपूर्वस्ये॑त्युत्त्वे रपरत्वेहलि चे॑ति दीर्घः ।

Padamanjari

Up

श्रुद्दशोरपौति। श्रुवः सूत्र एव निर्देशाद् द्दश उपसंख्यानात्॥