1-3-56 उपात् यमः स्वकरणे धातवः आत्मनेपदम् कर्तरि
index: 1.3.56 sutra: उपाद्यमः स्वकरणे
शेषात् कर्तरि परस्मैपदे प्राप्ते उपपूर्वात् यमः स्वकरणे वर्तमानादात्मनेपदं भवति। पाणिग्रहणविशिष्टम् इह स्वकरणम् गृह्यते, न स्वकरणमात्रम्। भार्यामुपयच्छते। स्वकरणे इति किम्? देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति।
index: 1.3.56 sutra: उपाद्यमः स्वकरणे
स्वकरणं स्वीकारः । भार्यामुपयच्छते ।
index: 1.3.56 sutra: उपाद्यमः स्वकरणे
उपाद्यमः स्वकरणे - उपाद्यमः ।आत्मनेपद॑मिति शेषः । ननुस्वं वरुआमुत्पादयती॑त्यर्थेवस्त्रमुपयच्छती॑त्यत्राप्यात्मनेपदं स्यादित्यत आह — स्वकरणं स्वीकार इति । अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः । च्विप्रत्ययस्तु वैकल्पिकः,समर्थानां प्रथमाद्वे॑त्युक्तेरिति भाष्ये स्पष्टम् ।
index: 1.3.56 sutra: उपाद्यमः स्वकरणे
इह स्वस्य सतो रूपान्तरेण यत्करणं तत्स्वकरणमिति न गृह्यते, किं तर्हि? यदाऽस्वं स्वं करोति तदा भवितव्यम्, च्विप्रत्ययस्तु विकल्पितत्वान्न भवति। पाणिग्रहणविशिष्टमिति। पाणिग्रहणं नाम कश्चित्कन्यासंस्कारस्तद्विशिष्टमित्यर्थः। भाष्ये तु-अस्वस्य सतः स्वत्वापादनमेव स्वकरणमित्युक्तम्। भट्टिकाव्येऽपि तदनुगुणः प्रयोगः- उपायंस्त महास्त्राणि, उपायंसत नासतम्, नोपायंस्त दशानन इति। देवदतो यज्ञदतस्य भार्यामुपयच्छति, यज्ञदतसम्बन्धिनीं भार्यां दास्यादिरूपेण स्वीकरोतीत्यर्थः। पाणिग्रहणाभावाद् वृत्तिकारमते युक्तं प्रत्युदाहरण्, भाष्यकारमते त्वत्रापि भवितव्यम्॥