दाणश्च सा चेच्चतुर्थ्यर्थे

1-3-55 दाणः च सा चेत् चतुर्थ्यर्थे धातवः आत्मनेपदम् कर्तरि समः तृतीयायुक्तात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<दाण् दाने>> परस्मैपदी। ततः संपूर्वात् तृतीयायुक्तादात्मनेपदं भवति, सा चेत् तृतीया चतुर्थ्यर्थे भवति। कथं पुनस्तृतीया चतुर्थ्यर्थे स्यात्? वक्तव्यमेवैतत्॥ अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवतीति वक्तव्यम्॥ दास्या संप्रयच्छते। वृषल्या संप्रयच्छते। कामुकः सन् दास्यै ददातीत्यर्थः। चतुर्थ्यर्थ इति किम्? पाणिना संप्रयच्छति। समः प्रशब्देन व्यवधाने कथमात्मनेपदं भवति? सम इति विशेषणे षष्ठी, न पञ्चमी॥

Siddhanta Kaumudi

Up

संपूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ॥

Laghu Siddhanta Kaumudi

Up

सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते कामी॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दाणश्च सा चेच्चतुर्थ्यर्थे>> - दाणश्च सा ।समस्तृतीयायुक्ता॑दित्यनुवर्तते । तदाह — संपूर्वादिति । उक्तं स्यादिति । आत्मनेपदमित्यर्थः । सा चेदिति । तच्छब्देन तृतीया परामृश्यते । तदाह — तृतीया चेदिति । दास्या संयच्छते इति ।अशिष्टव्यवहारे दाणः प्रयोगे चतुथ्र्यर्थे तृतीया वाच्या॑ इति तृतीया । ननुरथेन समुदाचरते इत्यत्रसमस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्य न प्रवृत्तिः, आङा व्यवहितत्वेन सम्पूर्वकत्वाऽभावात्त्समादित्युत्तरस्ये॑ति परिभाषया सम इति पञ्चम्या चरेरव्यवहितपरत्वलाभात् । तथादास्या संप्रयच्छते॑ इत्यत्रापिदाणश्च सा चे॑दिति कथं प्रवर्तते, प्रशब्देन व्यवधानादित्यत आह — पूर्वसूत्रे सम इति षष्ठीति । तथा च षष्ठआ पौर्वापर्यमेव गम्यते, न त्वव्यवहितत्वमिति भावः । तेनेति । षष्ठआश्रयणेनेत्यर्थः । सूत्रद्वयमिति ।समस्तृतीयायुक्ता॑दिति पूर्वसूत्रस्थस्य षष्ठन्तस्यैव समःदाणश्चे॑ति सूत्रेऽप्यनुवृत्तेरिति भावः ।

Padamanjari

Up

वक्तव्यमेवैतदिति। सूत्रे चेच्छब्दश्चशब्दश्चार्थे, अनेकार्थत्वान्निपानामिति। केचिद्-दाणस्तृतीयायुक्तादात्मनेपदं भवति, सा च तृतीया चतुर्थ्यवेदितव्याचक्षते; एवमपि ठशिष्टव्यवहारेऽ इति वक्तव्यमेव, अशिष्टानां सङ्कीर्णाचाराणां यो व्यवहार आचारः तस्मिन्नित्यर्थः। दास्या सम्प्रयच्छत इति । यो दास्या सह भुञ्जानस्तया दतं स्वयं च तस्यै ददाति तद्विषयोऽयं प्रयोग इत्याहुः। कथमात्मनेपदमिति। न कथञ्चित्,'तस्मादित्युतरस्य' इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति भावः। विशेषणषष्ठीति । एवं च पूर्वसूत्रेऽप्यश्वेन समुदाचरत इत्यादावपि भवितव्यम्॥