1-3-54 समः तृतीयायुक्तात् धातवः आत्मनेपदम् कर्तरि चरः
संपूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति। तृतीयेति तृतीया विभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः। अश्वेन संचरते। तृतीयायुक्तादिति किम्? उभौ लोकौ संचरसि इमं चामुं च देवल। यद्यप्यत्र तदर्थयोगः संभवति, तृतीया तु न श्रूयत इति प्रत्युदाहरणं भवति॥
रथेन संचरते ॥
रथेन सञ्चरते॥
<<समस्तृतीयायुक्तात्>> - समस्तृतीया । सकर्मकादिति निवृत्तम् । संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथातृतीयये॑त्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव॒तृतीयायुक्तादिति किम् । उभौ लोकौ संचरसीभं चामुं च लोक॑मिति भाष्यं सङ्गच्छते ।
विभक्तिर्गृ ह्यते इति । तत्रैव तृतीयाशब्दस्य मुख्यत्वात् । यद्येवम्, तया सह धातोः सम्बन्धो न भवति; न हि तृतीया धातुवाच्या, नापि धातुस्तृतीयान्त इत्यत आह-तयेत्यादि। तृतीयार्थेन धात्वर्थस्य योगादौपचारिको धातोस्तृतीयायोग इत्यर्थः। यद्यप्यत्रेति। न हि चेष्टारूपसञ्चरणमन्तरेम करणं सम्भवति, अतोऽश्रुतेऽपि करणपदे तपसा श्रुतेन वेति गम्यमानत्वातदर्थयोगस्य सम्भवः। तृतीया त्विति। एतदर्थमेव हि पूर्वमुक्तम् - विभक्तिर्गृ ह्यत इति। तृतीयायुक्तादिति वाऽनर्थकं स्तात्। यदि तदर्थयोगः स्यात्, सर्वत्रैवं तदर्थभावादिति भावः॥