उदश्चरः सकर्मकात्

1-3-53 उदः चरः सकर्मकात् धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शेषात् कर्तरि परस्मैपदे प्राप्ते, उत्पूर्वाच् चरतेः सकर्मकक्रियावचनादात्मनेपदं भवति। गेहमुच्चरते। कुटुम्बमुच्चरते। गुरुवचनमुच्चरते। उत्क्रम्य गच्छतीत्यर्थः। सकर्मकादिति किम्? बाष्पमुच्चरति॥

Siddhanta Kaumudi

Up

धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उदश्चरः सकर्मकात्>> - उदश्चरः । उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः ।

Padamanjari

Up

उत्क्रम्येति उल्लङ्घयेत्यर्थः। उच्चरतीति उपरिष्टद् गच्छतीत्यर्थः॥