1-3-51 अवात् ग्रः धातवः आत्मनेपदम् कर्तरि
<<गृृ निगरणे>> इति तुदादौ पठ्यते, तस्येदं ग्रहणम्, न तु <<गृृ शब्दे>> इति क्र्यादिपठितस्य। तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति। <<शेषात्०>> १.३.७८ इति परस्मैपदे प्राप्ते, अवपूर्वाद् गिरतेरात्मनेपदं भवति। अवगिरते, अवगिरेते, अवगिरन्ते। अवादिति किम्? गिरति॥
अवगिरते । कृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ॥
<<अवाद्ग्रः>> - अवाद्ग्रः । आत्मनेपद॑मिति शेषः । 'गृ' इत्यस्य 'ग्र' इति पञ्चमी ।प्रकृतिवदनुकरण॑मित्यस्याऽनुत्यत्वात्ऋत इद्धातो॑रिति न भवति । तदनित्यत्वे इदमेव मानम् । अवगिरत इति । शविकरणोऽयम् ।अवगृणाती॑त्यत्राप्यात्मनेपदमाशङ्क्य आह — गृणातिस्त्विति । एवं च तुदादेरेव ग्रहणमिति भावः ।
'गिरः' इति पाठे धात्वनुकरणत्वाद् विभक्तावित्वम् ।'ग्रः' इति तु पाठे रूपमात्रानुकरणं द्रष्टव्यम्। तस्य ह्यवपूर्वस्येति। नियतविषयाण्यपि क्रियाविशेषणानि भवन्ति, यथा - उर्यादयः कृभ्वस्तिभ्योऽन्यविषया न भवन्तीति भावः॥