1-3-50 विभाषा विप्रलापे धातवः आत्मनेपदम् कर्तरि वदः व्यक्तवाचां समुच्चारणे
वद इति वर्तते, व्यक्तवाचां समुच्चारण इति च। विप्रलापात्मके व्यक्तवाचां समुच्चारणे वर्तमानाद् वदतेरात्मनेपदं भवति विभाषा। प्राप्तविभाषेयम्। विप्रवदन्ते सांवत्सराः, विप्रवदन्ति सांवत्सराः। विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः। युगपत् परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः। विप्रलाप इति किम्? संप्रवदन्ते ब्राह्मणाः। व्यक्तवाचामित्येव — विप्रवदन्ति शकुनयः। समुच्चारण इत्येव — क्रमेण मौहूर्ता मौहूर्तेन सह विप्रवदन्ति॥
विरूद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः ॥
<<विभाषा विप्रलापे>> - विभाषा विप्रलापे ।व्यक्तवाचां समुच्चारणे॑ इत्यनुवर्तते । विरुद्धोक्तिर्विप्रलापः । तदाह — विरुद्धोक्तिरूपे इति ।
संवत्सरान् वदन्तीति सांवत्सराःउज्यौतिषिकाः। एवं मौहूर्तिकाः॥