1-3-48 व्यक्तवाचां समुच्चारणे धातवः आत्मनेपदम् कर्तरि वदः
वद इति वर्तते। व्यक्तवाचां समुच्चारणं सहोच्चारणम्, तत्र वर्तमानाद् वदतेरात्मनेपदं भवति। ननु <<वद व्यक्तायां वाचि>> इत्येव पठ्यते तत्र किं व्यक्तवाचामिति विशेषणेन? प्रसिद्ध्युपसंग्रहार्थमेतत्। व्यक्तवाच इति हि मनुष्याः प्रसिद्धाः, तेषां समुच्चारणे यथा स्यात्। संप्रवदन्ते ब्राह्मणाः। संप्रवदन्ते क्षत्रियाः। व्यक्तवाचामिति किम्? संप्रवदन्ति कुक्कुटाः। समुच्चारण इति किम्? ब्राह्मणो वदति। क्षत्रियो वदति॥
मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥
<<व्यक्तवाचां समुच्चारणे>> - व्यक्तवाचाम् । व्यक्ताः = अज्झल्भेदेन स्पष्टोच्चारिताः वाचः = शब्दा येषामिति विग्रहः । समित्येकीबावे । तदाह — मनुष्यादीनामिति । संप्रवदन्ते ब्राआहृणा इति । संप्रवदन्ते ब्राआहृणा इति । संभूयोच्चारयन्तीत्यर्थः ।
मनुष्याः प्रसिद्धा इति। यद्यपि कुक्कुटादिरुतमपिस्वरूपेम व्यक्तम्-अस्येदं रुतमस्येदमिति। मनुष्यवाक्तु व्यक्ततरा भवति, वर्णात्मकत्वाद्, अर्थावगतिहेतुत्वाच्च, अतस्त एव गृह्यन्ते। शुकशारिकादीनां तु पुरुषप्रयत्नवशेन क्वाचित्कं व्यक्तवाक्त्वम्, न स्वभाविकमिति ने तेषां ग्रहणम्। वरतनु सम्प्रवदन्ति कुक्कुटा इति। अपनय पादसरोजमङ्कतः, शिथिलय बाहुलतां गलाद्दताम्। क्व च वदनाअऽशुकमाकुलीकृतम्,॥इति पूर्वपादाः। क्व् चितु कृत्स्न एव श्लोकः पठ।ल्ते, तत्र वरतनुरिति बहुव्रीहौ यदि ह्रस्वन्तस्तनुशब्दः, ततः'संबुद्धौ च' इति गुणप्रसङ्गः, दीर्घान्ते तु नदीलक्षणः कप् प्राप्नोति। केचिदाहः-तनुशब्दः स्त्रीजातौ कविभिः प्रयुज्यते, तस्माद् ठूणुतःऽ इति ऊइङ् कृते कर्मधारयोऽयमिति॥