1-3-47 भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः धातवः आत्मनेपदम् कर्तरि
शेषात् कर्तरि परस्मैपदे १.३.७८ प्राप्ते भासनादिषु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति। भासनं दीप्तिः — वदते चार्वी लोकायते। भासमानो दीप्यमानः, तत्र पदार्थान् व्यक्तीकरोतीत्यर्थः। उपसंभाषोपसान्त्वनम् — कर्मकरानुपवदते। उपसान्त्वयतीत्यर्थः। ज्ञानं सम्यगवबोधः — वदते चार्वी लोकायते। जानाति वदितुमित्यर्थः। यत्न उत्साहः — क्षेत्रे वदते। गेहे वदते। तद्विषयमुत्साहमाविष्करोतीत्यर्थः। विमतिर्नानामतिः — क्षेत्रे विवदन्ते। गेहे विवदन्ते। विमतिपतिता विचित्रं भाषन्त इत्यर्थः। उपमन्त्रणं रहस्युपच्छन्दनम् — कुलभार्यामुपवदते। परदारानुपवदते। उपच्छन्दयतीत्यर्थः। एतेष्विति किम्? यत्किंचिद् वदति॥
उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे । वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥
<<भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः>> - भासनोपसंभाषा ।आत्मनेपद॑मिति शेषः । इतरे इति । भासनज्ञानादय इत्यर्थः । प्रयोगोपाधय इति । इदंसम्माननोत्सञ्जने॑त्यत्र व्याख्यातं प्राक् । भासनं तु तत्तदाक्षेपेषु समाधानाय नवनवयुक्त्युल्लेखः । शास्त्रे वदते इति । विषयसप्तम्येषा इति । भासमान इति । नवनवयुक्तीरुल्लिखतीत्यर्थः । शास्त्रे वदते इति - विषसप्तमी । व्यवहरतीत्यर्थः । व्यवहारश्च ज्ञानं विना न संभवतीति ज्ञानमार्थिकम् । ज्ञात्वा व्यवहरतीति फलितम् । क्षेत्रे विवदन्ते इति । विरुद्धं व्यवहरन्तीत्यर्थः । विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी । उपवदते इति । उपपूर्वस्य वदेः प्रार्थनमर्थः । तदाह — प्रार्थयते इत्यर्थ इत ।
भासनादिष्विति। अत्रापि किञ्चिद्धातोर्विशेषणम्, किञ्चिद्धात्वर्थस्य। उपसान्त्वनमु उपच्छन्दनम्, धातोः, भासनादि धात्वर्थस्य । भासमान इति । हेतौ लटः शानजादेशप्रयोगेण भासनं हेतुत्वेन विशेषणमित्याह । शिष्यैः स्तूयमानो भासते। तथा चोपर्युपरि शास्त्रार्थस्य प्रतिभासनात् सुष्ठुअ वदनं भवति, तेजोभङ्गे तु न शक्नुयाद्वदितुम्। जानाति वदितुमिति।'शकवृष' इत्यादिना तुमुन्, अत्र वदत्यर्थो ज्ञानस्य विषयः, ज्ञानं विषयि। तद्विषयमित्यादि। अत्र यत्नस्याविष्करणरूपस्य वदत्यर्थस्य कर्म। विमतिपतिता इति हेतुगर्भविशेषणं प्रयुञ्जानो विमतिर्हेतुत्वेन विशेषणमित्याह। विमतौ हि सत्यां विचित्रभाषणरूपो वदत्यर्थो निवर्तते। उपच्छन्दयतीति।'भद्रे भजस्व मास्, इदं ते दास्यामि' इति, स्वाभिलषिते प्रवर्तयतीत्यर्थः॥