अपह्नवे ज्ञः

1-3-44 अपह्नवे ज्ञः धातवः आत्मनेपदम् कर्तरि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शेषात् कर्तरि परस्मैपदे प्राप्ते जानातेरपह्नवे वर्तमानादात्मनेपदं भवति। अपह्नवोऽपह्नुतिरपलापः। सोपसर्गश्चायमपह्नवे वर्तते, न केवलः। शतमपजानीते। सहस्त्रमपजानीते। अपलपतीत्यर्थः। अपह्नव इति किम् ? न त्वं किंचिदपि जानासि॥

Siddhanta Kaumudi

Up

शतमपजीनीते । अपलपतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

शतमपजानीते। अपलपतीत्यर्थः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपह्नवे ज्ञः>> - अपह्नवे ज्ञः । अपह्नवः = अपलापः । तद्वृत्तेज्र्ञाधातोरात्मनेपदमित्यर्थः ।

Padamanjari

Up

शेषादित्यादि। असत्यस्मिन् सूत्रे अयमविशेष एव भवतीति भावः। सोपसर्गाश्चेति। तेन ठनुपसर्गाज् ज्ञःऽ इत्यनेन कर्त्रभिप्राये क्रियाफले न सिद्ध्यतीति भावः। उपजानीते इति ।'ज्ञाजनोर्जा' ॥