अपह्नवे ज्ञः

1-3-44 अपह्नवे ज्ञः धातवः आत्मनेपदम् कर्तरि

Kashika

Up

index: 1.3.44 sutra: अपह्नवे ज्ञः


शेषात् कर्तरि प्रस्मैपदे प्राप्ते जानतेरपह्नवि वर्तमनादात्मनेपदं भवति। अपह्नवोऽपह्नुतिरपलापः। सोपसर्गश्च अयमपह्नवे वर्तते, न केवलः। शतमपजनीते। सहस्रमपजानीते। अपलपति इत्यर्थः। अपह्नवे इति किम्? न त्वं किञ्चदपि जानासि।

Siddhanta Kaumudi

Up

index: 1.3.44 sutra: अपह्नवे ज्ञः


शतमपजीनीते । अपलपतीत्यर्थः ।

Laghu Siddhanta Kaumudi

Up

index: 1.3.44 sutra: अपह्नवे ज्ञः


शतमपजानीते। अपलपतीत्यर्थः॥

Balamanorama

Up

index: 1.3.44 sutra: अपह्नवे ज्ञः


अपह्नवे ज्ञः - अपह्नवे ज्ञः । अपह्नवः = अपलापः । तद्वृत्तेज्र्ञाधातोरात्मनेपदमित्यर्थः ।

Padamanjari

Up

index: 1.3.44 sutra: अपह्नवे ज्ञः


शेषादित्यादि। असत्यस्मिन् सूत्रे अयमविशेष एव भवतीति भावः। सोपसर्गाश्चेति। तेन ठनुपसर्गाज् ज्ञःऽ इत्यनेन कर्त्रभिप्राये क्रियाफले न सिद्ध्यतीति भावः। उपजानीते इति ।'ज्ञाजनोर्जा' ॥