अकर्मकाच्च

1-3-45 अकर्मकात् च धातवः आत्मनेपदम् कर्तरि ज्ञः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अकर्त्रभिप्रायार्थमिदम्। कर्त्रभिप्राये हि <<अनुपसर्गाज्ज्ञः>> १.३.७६ इति वक्ष्यति। जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। सर्पिषो जानीते। मधुनो जानीते। कथं चायमकर्मकः? नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन। तथा च <<ज्ञोऽविदर्थस्य करणे>> २.३.५१ इति षष्ठी विधीयतेसर्पिषो जानीते, मधुनो जानीते। सर्पिषा उपायेन प्रवर्तत इत्यर्थः। अकर्मकादिति किम्? स्वरेण पुत्रं जानाति॥

Siddhanta Kaumudi

Up

सर्पिषो जानीते । सर्पिषो उपायेन प्रवर्तते इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अकर्मकाच्च>> - अकर्मकाच्च ।ज्ञ आत्मनेपदटमिति शेषः । सर्पिषो जानीते इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते ।ज्ञोऽविदर्थस्य करणे॑ इति तृतीयार्थे षष्ठी । तदाह — सर्पिषोपायेन प्रवर्तते इति । 'अनुपसर्गाज्ज्ञः' इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते ।

Padamanjari

Up

अकर्त्रमिप्रायार्तमिदमिति। अथ कर्त्रभिप्राये कथम्, तत्राह-कर्त्रभिप्रायो हीति। ननु सोपसर्गात्कर्त्रभिप्रायेऽप्यनेनैवात्मनेपदमेषितव्यम् - औषधस्यानुजानीते, औषधस्यानुजिज्ञासत इति; तस्मात्सर्पिषो जानीते इत्युदाहरणाभिप्रायमेतद्वेतव्यम्। कथं चायमकर्मक इति।'सर्पिषः' इति कर्मणि शेषत्वेन षष्ठी, न माषाणामश्नीयादितिवत्। तेन सर्पिरादिना ज्ञेयेन सकर्मक इति मत्वा प्रश्नः। अकर्मकादिति किमिति। यदि सर्पिरादि करणत्वेन विविक्षितम्, तर्हि करणादिति वक्तव्यमित्यभिप्रायः। एवमुच्यमाने सकर्मकादपि स्यादेवेति दर्शयतिस्वरेणेति॥