अनुपसर्गाद्वा

1-3-43 अनुपसर्गात् वा धातवः आत्मनेपदम् कर्तरि क्रमः

Sampurna sutra

Up

अनुपसर्गात् क्रमः वा आत्मनेपदम्

Neelesh Sanskrit Brief

Up

उपसर्गरहितात् 'क्रम्' धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

When the verb क्रम् is used without any उपसर्ग, it optionally gets the प्रत्ययाः of आत्मनेपद.

Kashika

Up

क्रम इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गादिति किम् ? संक्रामति॥

Siddhanta Kaumudi

Up

क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अनुपसर्गाद्वा>> - अनुपसर्गाद्वा ।कर्म आत्मनेपद॑मिति शेषः । अप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः ।

Padamanjari

Up

अप्राप्तविभाषेयमिति। ठुपपराभ्याम्ऽ इत्यस्य नियमार्थत्वाद् वृत्यादिसूत्रमनुपसर्गविषयमेवेति न तत्रायं विकल्प इति भावः॥