1-3-42 प्रोपाभ्यां समर्थाभ्याम् धातवः आत्मनेपदम् कर्तरि क्रमः
समर्थाभ्याम् प्रोपाभ्याम् क्रमः आत्मनेपदम्
'प्र', 'उप' एतौ उपसर्गौ यदा 'प्रारम्भः' अस्मिन् अर्थे प्रयुज्येते, तदा एताभ्याम् 'क्रम्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
When the उपसर्ग 'प्र' or 'उप' is attached to the verb 'क्रम्', it gets the प्रत्ययाः of आत्मनेपद ; provided that the meaning expressed is 'the beginning of'.
प्र उप इत्येताभ्यामुपसर्गाभ्यां परस्मात् क्रमतेरात्मनेपदं भवति, तौ चेत् प्रोपौ समर्थौ तुल्यार्थौ भवतः। क्व चानयोस्तुल्यार्थता ? आदिकर्मणि। प्रक्रमते भोक्तुम्। उपक्रमते भोक्तुम्। समर्थाभ्यामिति किम् ? पूर्वेद्युः प्रक्रामति। गच्छतीत्यर्थः अपरेद्युरुपक्रामति। आगच्छतीत्यर्थः। अथ <<उपपराभ्याम्>> १.३.३९ इत्यनेनात्मनेपदमत्र कस्माद् न भवति ? वृत्त्यादिग्रहणं तत्रानुवर्तते, ततोऽन्यत्रेदं प्रत्युदाहरणम्॥
समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥
<<प्रोपाभ्यां समर्थाभ्याम्>> - प्रोपाभ्याम् ।क्रम आत्मनेपद॑मिति शेषः । समौ अर्थौ ययोरिति विग्रह इत्याह — समर्थौ तुल्यार्थाविति । सवर्णदीर्घमाशङ्क्य आह — शकन्ध्वादित्वादिति । ननु 'प्रक्रमते' इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः, उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह — प्रारम्भेऽनयोस्तुल्यार्थतेति । तथाच आरम्भार्थकाम्यामिति फलितमिति भावः ।
अन्योऽन्यसाहचर्यात्प्रोपयोरुपसर्गयोर्ग्रहणम्, न प्रातिपदिकान्तकर्मप्रवचनीययोः, नापि क्रियान्तरसम्बन्धिनोः, नाप्यनर्थकयोरित्याह-प्र उप इत्येताभ्यामुपसर्गभ्यामिति। तुल्यार्थाविति। एतेन समोऽर्थो ययोरितिसमर्थौ, शकन्ध्वादित्वात्पररूपम्, संशब्दस्यैव वाऽनेकार्थत्वातुल्यार्थत्वमिति दर्शयति। ननु'समर्थः पदविधिः' इत्यादौ सम्बन्धार्थत्वं प्रसिद्धम्, सत्यम्; इह तु धात्वर्थ प्रति पारतन्त्र्यान्न परस्परेण सम्बन्धार्थत्वम् । धातुना चोपसर्गयोः सम्बन्धोऽव्यभिचारी, तस्मात्पूर्वोक्त एवार्थः। प्रक्रमते इति । आरभत इत्यर्थः॥