1-3-41 वेः पादविहरणे धातवः आत्मनेपदम् कर्तरि क्रमः
पादविहरणे वेः क्रमः आत्मनेपदम्
'वि' उपसर्गात् 'क्रम्' धातोः 'पादैः विहरणम्' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति ।
When the उपसर्ग 'वि' is attached to the verb 'क्रम्', it gets the प्रत्ययाः of आत्मनेपद, provided the meaning is 'to roam around with feet'.
विपूर्वात् क्रमतेः पादविहरणेऽर्थे वर्तमानादात्मनेपदं भवति। विहरणं विक्षेपः सुष्ठु विक्रमते। साधु विक्रमते। अश्वादीनां गतिविशेषो विक्रमणमुच्यते। यद्यपि क्रमिः पादविहरण एव पठ्यते <<क्रमु पादविक्षेपे>> इति, तथाप्यनेकार्थत्वाद् धातूनामेवमुक्तम्। पादविहरण इति किम्? विक्रामत्यजिनसन्धिः॥
साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥
<<वेः पादविहरणे>> - पादविहरणं = पादविक्षेपः । तद्वृतेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः । साधु विक्रमते वाजीति । सम्यक्पदानि विक्षिपतीत्यर्थः ।
विक्रामत्यजिनसन्धिरिति। द्विधा भवति, स्फुटतीत्यर्थः॥