1-3-40 आङः उद्गमने धातवः आत्मनेपदम् कर्तरि क्रमः
उद्गमने आङः क्रमः आत्मनेपदम्
'आङ्' उपसर्गात् 'क्रम्' धातोः 'उद्गमनम्' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति ।
When the उपसर्ग 'आङ्' is attached to the verb 'क्रम्', it gets the प्रत्ययाः of आत्मनेपद, provided the meaning is 'to rise, to travel upwards'.
आङ्पूर्वात् क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति। आक्रमत आदित्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतींषि। उद्गमन इति किम्? आक्रामति माणवकः कुतपम्॥ ज्योतिरुद्गमन इति वक्तव्यम्॥ इह मा भूत् — आक्रामति धूमो हर्म्यतलात्॥
आक्रमते सूर्यः । उदयत इत्यर्थः ।<!ज्योतिरुद्गमन इति वाच्यम् !> (वार्तिकम्) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ॥
आक्रामति माणवकः कुतुपमिति। अवष्टभ्नातीत्यर्थः। ह्रस्वा कुतूः कुतुपः,'कुत्वा डुपच्' । कुतुपमिति पाठे कुतपो दर्भसंस्तरः। आक्रामति धूमो हर्म्यतलमिति। उद्रमनपूर्विकायां व्याप्तावत्र क्रमिर्द्रष्टव्यः। इह तु'नभः समाक्रामति चन्द्रमाः क्रमात्' इति क्रमिर्व्याप्तौ वर्तते; नोद्रमने॥