1-3-39 उपपराभ्याम् धातवः आत्मनेपदम् कर्तरि वृत्तिसर्गतायनेषु क्रमः
index: 1.3.39 sutra: उपपराभ्याम्
उपपराभ्याम् वृत्तिसर्गतायनेषु क्रमः
index: 1.3.39 sutra: उपपराभ्याम्
उपसर्गपूर्वकात् 'क्रम्' धातोः - (1) वृत्तिः (निरन्तरता) , (2) सर्गः ( उत्साहः), (3) तायनः (विस्तारः) - एतेषु अर्थेषु एव आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.39 sutra: उपपराभ्याम्
When the verb 'क्रम्' comes with an उपसर्ग, it gets the प्रत्ययाः of आत्मनेपद only in the meaning of - (1) वृत्तिः , To progress without getting stuck , (2) सर्गः, enthusiasm, (3) तायनः, expansion, elaboration.
index: 1.3.39 sutra: उपपराभ्याम्
वृत्तिसर्गतायनेषु इति वर्तते। उपपरापूर्वात् क्रमतेर्वृत्त्यादिश्वर्थेषु वर्तमानादात्मनेपदं भवति। किमर्थं तर्हि इदमुच्यते? उपसर्गनियमार्थम्। सोपसर्गादुपपरापूर्वादेव, न अन्यपूर्वातिति। उपक्रमते। पराक्रमते। उपपराभ्याम् इति किम्? सङ्क्रामति। वृत्त्यादिष्वित्येव। उपक्रामति। पराक्रामति।
index: 1.3.39 sutra: उपपराभ्याम्
वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ।
index: 1.3.39 sutra: उपपराभ्याम्
उपपराभ्याम् - राधीक्ष्योः । यदीय इति । यद्विषयक इत्यर्थः । 'विप्रश्न' इत्येतद्व्याचष्टे — विविधः प्रश्न इति । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्ग इति । गर्गों नाम ज्योतिः शास्त्रविदृषिविशेषः, स कृष्णाय राध्यति ईक्षते वेत्यन्वयः । 'राध संसिद्धौ 'ईक्ष दर्शने॑ । इह तु प्रस्नविषयशुभाऽशुभपर्योलोचनमर्थः, 'यस्य विप्रश्न' इति लिङ्गात् । तदाह — शुभाशुभं पर्योलोचयतीत्यर्थ इति । अत्र शुभस्याऽशुभस्य च प्रश्नविषयस्य धात्वर्थोपसङ्ग्रहाकर्मकावेतौ । अत एव राध्यतीति श्यन्नुपपद्यते । अन्यथाराधोऽकर्मकादि॑ति नियमाच्छ्यन्न स्यात् । एवंच किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाऽशुभं पर्योलोचयतीत्यर्थः । कृष्णस्य संप्रदानत्वं । षष्ठपवादः ।
index: 1.3.39 sutra: उपपराभ्याम्
उपपराभ्यामिति माणवकः कुतुपमिति। उपसर्गनियमः किमर्थ इत्यर्थः। संक्रामतीति।'क्रमः परस्मैपदेषु' इति दीर्घः॥