1-3-37 कर्तृस्थे च अशरीरे कर्मणि धातवः आत्मनेपदम् कर्तरि नियः
कर्तृस्थे शरीरे कर्मणि नियः आत्मनेपदम्
कर्तरि सकर्मकप्रयोगे ; यत्र शरीरमुत शरीरावयवः कर्मरूपेण न विधीयेते; तत्र 'नी' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
The verb 'नी' when used in the कर्तरि सकर्मकप्रयोग gets the प्रत्ययाः of आत्मनेपद, provided that the कर्मपद does not represent either the body or a part of the body of an animal.
नयतेः कर्ता देवदत्तादिर्लकारवाच्यः कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति। शरीरं प्राणिकायः, तदेकदेशोऽपि शरीरम्। क्रोधं विनयते। मन्युं विनयते। कर्तृस्थ इति किम् ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयति। अशरीर इति किम् ? गडुं विनयति। घाटां विनयति। कर्मणीति किम् ? बुद्ध्या विनयति। प्रज्ञया विनयति॥
नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित <{SK2158}> इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ॥
<<कर्तृस्थे चाशरीरे कर्मणि>> - कर्तृस्थे । निय इति । कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले ञित्त्वात्प्राप्तं, तच्छरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात्कथं शरीरावयवेत्युक्तमित्यत आह — सूत्रे इति । शीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थ्तवं न संभवति । शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः । ननु क्रोधापगमस्य क्रोध विषयशत्रुगताऽनिष्टपरिहारफलकत्वाञ्ञित्वेऽप्यात्मनेपदऽप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह — तत्फलस्येत्यादि । गडुं विनयतीति । कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः । कथं तर्हीति । पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति । कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, ननु विधीयते । अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम्, अतो नात्मनेपदमिति भावः ।
नयतेरात्मनेपदविधानातत्सम्बन्ध्येव कर्ता लकारवाच्यः प्रत्यासन्नो गृह्यत इत्याह - नयतेः कर्तेति। तदेकदेशोऽपि शरीरमिति। अपिशब्दोऽवधारणे। इह शरीरस्यैव चैतन्यविशिष्टस्य कर्तृत्वं लौकिकाः प्रतियन्ति, न तद्व्यतिरिक्तस्य बुद्धीन्द्रियादिमतश्चतनस्य । न च शरीरमेवशरीरस्थं भवति, अतस्तदेकदेश एव तद्ग्रहणेन गृह्यते इत्यर्थः। अत्र क्रोधाद्यपनयनफलं कर्त्रभिप्रायमिति'स्वरितञितः' इत्येव सिद्धे नियमार्थमिदम् - कर्तृस्थे कर्मण्यशरीरस्थ एवेति । अथ कथम्'विगण्य्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः' इति? केचिदाहुः-अपगमे वर्तमानादिदमात्मनेपदविधानं भवति, अत्र तु करोत्यर्थे प्राप्त्यर्थे प्राप्त्यर्थे वा वर्तते, अनेकार्थत्वाद्धातूनामिति॥