1-3-36 सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः धातवः आत्मनेपदम् कर्तरि
सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः आत्मनेपदम्
सम्माननम्, उत्सञ्जनम् , आचार्यकरणम्, ज्ञान, भृतिः, विगणनम् , व्ययः - एतेषु अर्थेषु 'नी' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
The verb नी gets the प्रत्ययाः of आत्मनेपद ; when used in the meaning of - (1) सम्मानन, To respect in an appropriate way (2) उत्सञ्जन, To lift up, to toss (3) आचार्यकरण, To convert someone into a teacher (by imparting proper knowledge to them) (4) ज्ञान, To decide, fix upon (5) भृतिः, Employ someone by giving money (6) निगणन, To pay off, to give loan ; and (7) व्यय, To spend.
<<णीञ् प्रापणे>> अस्मात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। णीञ् प्रापणे इत्येतस्माद् धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु। संमाननं पूजनम् — नयते चार्वी लोकायते। चार्वी बुद्धिः तत्संबन्धादाचार्योऽपि चार्वी, स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति, ते युक्तिभिः स्थाप्यमानाः संमानिताः पूजिता भवन्ति। उत्सञ्जनमुत्क्षेपणम् — माणवकमुदानयते। उत्क्षिपतीत्यर्थः। आचार्यकरणमाचार्यक्रिया, माणवकमीदृशेन विधिनात्मसमीपं प्रापयति यथा स उपनेता स्वयमाचार्यः संपद्यते। माणवकमुपनयते। आत्मानमाचार्यीकुर्वन् माणवकमात्मसमीपं प्रापयतीत्यर्थः। ज्ञानं प्रमेयनिश्चयः — नयते चार्वी लोकायते। तत्र प्रमेयं निश्चिनोतीत्यर्थः। भृतिर्वेतनम् — कर्मकरानुपनयते। भृतिदानेन समीपं करोतीत्यर्थः। विगणनमृणादेर्निर्यातनम् — मद्राः करं विनयन्ते। निर्यातयन्तीत्यर्थः। व्ययो धर्मादिषु विनियोगः — शतं विनयते। सहस्रं विनयते। धर्माद्यर्थं शतं विनियुङ्क्त इत्यर्थः। एतेष्विति किम्? अजां नयति ग्रामम्॥
अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयनते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्तं इत्यर्थः ॥
णीञ् (प्रापणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु सः केवलं आत्मनेपदस्य प्रत्ययान् एव प्राप्नोति - 1) सम्माननम् (सुष्ठु मार्गदर्शनम्) - आचार्यः छात्रं व्याकरणे नयते । 2) उत्सञ्जनम् (उत्थापनम्) - राजा दण्डमुन्नतये ('उपरि करोति' इत्यर्थः । ) 3) आचार्यकरणम् (विधिपूर्वकम् ज्ञानदानम्) - आचार्यः माणवकमुपनयते । 4) ज्ञानम् (निश्चयः) - सः तत्वं नयते । ('तत्वस्य निश्चयं करोति' इत्यर्थः) 5) भृतिः (वेतनं दत्वा समीपतानिर्माणम्) - धनिकः कर्मकारमनुपनयते । 6) विगणनम् (ऋणपूर्तिः) - मद्राः करं विनयन्ते ('करः' इत्युक्ते भागधेयम् - यथा आयकरः, विक्रयकरः आदयः । 'मद्राः ऋणपूर्तिं कुर्वन्ति' इत्यर्थः । 7) व्ययः (विनियोगः) - धनिकः शतं विनयते । अन्येषु अर्थेषु उभयपदम् भवति । यथा - अजाम् ग्रामम् नयति नयते वा ।
<<सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः>> - संमननोत्सञ्जना । एषु गम्येषु णीञ्धातोरात् मनेपदमित्यर्थः । परगामिन्यपि फले आत्मनेपदार्थमिदम् । इतरे इति । संमाननाऽऽचार्यकरणप्रभृतय इत्यर्थः । प्रयोगोपाधय इति । वाच्यत्वाऽभावेऽपि आर्थिकाः सत्तामात्रेण शब्दप्रयोगे निमित्तभूता इत्यर्थः । आत्मनेपदद्योत्या इति यावत् । तदेवोपपादयितुं प्रतिजानीते — तथा हीति । संमानने उदाहरति — शास्त्रे नयते इति । अत्र णीञ् प्रापणार्थकः ।सिद्धान्तप्रापणेनेत्यर्थः । फलितमिति । अर्थादिति भावः । उत्सञ्जने इति । 'उदाह्यियते' इति शेषः । उत्सञ्जनमुत्क्षेपः । उत्क्षिपतीत्यर्थ इति । धातूनामनेकार्थत्वादिति सत्त्या प्रापयित्रपेक्षमेव । तच्च माणवकीयमात्मसमीपप्रापणं वैधमेव विवक्षितम्, पूर्वोत्तराऽङ्गकलापाम्नासामर्थ्यात् । तदाह - विधिना आत्मसमीपं प्रापयतीति । तत्राऽऽचार्यकरणस्यार्थिकत्वमुपपादयति — उपनयनपूर्वकेणेति ।माणवकमुपनयीत,तमध्यापयीते॑त्यध्यापनार्थत्वमुपनयनस्याऽवगतम्, अध्यापनादाचार्यत्वं संपद्यते,उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ।॑ इतिस्मरणात् । तथा च आचार्यकरणमुपनयनसाध्यत्वादार्थिकहरति — कर्मकरानुपनयते इति । भृतिः = वेतनं । तदर्थ#ं कर्म करोतीति कर्मकरः । 'कर्मणि भृतौ' इति टप्रत्ययः । कर्मण्युपपदे कृञष्टः स्यात्कर्तरीति तदर्थः । उपपूर्वको णीञ् समीपप्रापणार्थकः । तदाह — राज्ञे देयं भागंपरिशोधयतीति । परिगणयति दातुमित्यर्थः । व्यये उदाहरति — शतं विनयते धर्मार्थमिति । अत्र विपूर्वो णीञ् व्ययार्थकः । तदाह — विनियुङ्क्ते इत्यर्थ इति ।
सम्माननादिषुविशेषणेषु सत्स्विति। युक्तं सम्माननाचार्यकरणवेतनानां विशेषणत्वम्, तत्र हि प्रापणमेव धात्वर्थः, सम्माननादीनि तु तमेव विषयतया व्यवच्छिन्दन्ति। उत्सञ्जनादीनां त्वयुक्तम्; तेषामेव धात्वर्थत्वात्, तद्व्यतिरिक्तस्य विशेष्यस्यासम्भवात्, उच्यते; सम्माननादेरुत्सञ्जनादेश्च विशेषणत्वं समानं पूर्वोक्तं धात्वर्थविशेषणम्, उतरस्तु धातुविशेषणमिति विशेष्यमात्रं भिद्यते, अतः सुष्ठूअक्तम् - सम्माननादिषु विशेषणेष्विति। चार्वि बुद्धिरिति। चारुशब्दात्'वोतो गुणवचनात्' इति ङीष्। आचार्योऽपि चार्वीति । यथा यष्टीः प्रवेशयेति पुरुषेष्वजहत्स्वलिङ्ग एव यष्टिशब्दः, तद्वच्चार्वीशब्दः। ते युक्तिभिरित्यादि। पूर्वस्मिन् वाक्ये गुणभावेनापि प्रकृते। ते शिष्याः युक्तिभिः प्रतिपाद्यमानाः, निष्पाद्यमाना इत्यर्थः। स्थाप्यमाना इति तु व्याख्याने पदार्थानामचेतनत्वात् न मुख्यं सम्माननम्। उत्क्षिपतीत्यर्थ इति। तेनोत्सञ्जनं नयतेरर्थ इति दर्शयति। आचार्यकरणमाचार्यक्रियेति। सूत्रवृतौ च कारणावस्थाया विवक्षितत्वात् च्विः प्राप्तोऽपि विकल्पाधिकारान्न कृतः। तथा चाचार्यीकुर्वन्निति च्विः प्रयुक्तः। ननुपनयनं माणवकस्य संस्कारः, येनासावध्ययने योग्यो भवति, न त्वनेनाचार्ये कश्चिदतिशयो जन्यते; आचार्यशब्दस्य तु प्रवृत्तिनिमितमुपनीयाध्यापनं नाम क्रियाविशेषः, यथोपाध्यायशब्दस्यैकदेशाध्यापनं तत्कथमाचार्यकरण आत्मनेपदं विधीयते इत्यत आह - माणवकमीद्दशेनेत्यादि । एवं मन्यते - उपनियाध्यापनेनाद्दष्टरूपः कश्चिदतिशय आचार्ये जन्यते, तदेव प्रवृत्तिनिमितमाचार्यशब्दस्येति तदाह - स्वयमाचार्यः सम्पद्यते इति । ठात्मानमाचार्यीकुर्वन्ऽ इति च हेतुलक्षणे लटः शत्रादेशः। ईद्दशेनेति । याद्दशः शास्त्रोक्तो विधिस्ताद्दशेनेत्यर्थः। ननु यद्याचार्यकमुपनयनस्य प्रयोजनं तत्कर्त्रभिप्रायमिति नार्थ आचार्यकरण आत्मनेपदविधानेन? उच्यते; नोपनयनेनाचार्यकं जन्यते, किं तर्हि? तत्पूर्वकेणाध्ययनेन। उपनयनक्रियायास्तु माणवकसंस्कारः साक्षात्फलम्। एवं संस्कृतस्य माणवकस्य यदध्यापनं तेनाचार्यकं जन्यते इति न तदुपनयनायः क्रियायाः फलम्। पच्च तस्याः फलं तन्माणवकगामि, न कर्तृगामि। निश्चिनोतीत्यर्थ इति । अनेन ज्ञानं नयतेरर्थ इत्याह। कारं विनयते इति। कर एव कारः, प्रज्ञादिः, राजग्राह्यए भागः कर्षकैः कल्पितः॥