अकर्मकाच्च

1-3-35 अकर्मकात् च धातवः आत्मनेपदम् कर्तरि कृञः वेः

Sampurna sutra

Up

अकर्मकात् वेः कृञः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

अकर्मकप्रयोगेषु 'वि' उपसर्गात् परस्य 'कृ' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

When the उपसर्ग 'वि' is attached to the verb 'कृ', it gets the प्रत्ययाः of आत्मनेपद ; provided that the verb is used in an अकर्मक sense.

Kashika

Up

वेः कृञ इत्यनुवर्तते। विपूर्वात् करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। विकुर्वते सैन्धवाः। साधुदान्ताः शोभनं वल्गन्तीत्यर्थः। ओदनस्य पूर्णाश्छात्रा विकुर्वते। निष्फलं चेष्टन्त इत्यर्थः। अकर्मकादिति किम् ? कटं विकरोति ॥

Siddhanta Kaumudi

Up

वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'वि + कृ' अयं धातुः यदि अकर्मके अर्थे प्रयुज्यते तर्हि अस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - छात्राः विकुर्वते ('निष्फलं चेष्टन्ते' इत्यर्थः) ।

Balamanorama

Up

<<अकर्मकाच्च>> - अकर्मकाच्च । वेः कृञ इत्यवेति । तथा च अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः । 'विकुर्वते' इत्येतद्व्याचष्टे — विकारं लभन्ते इति । लाभे विकारस्य कर्मत्वेपि धात्वर्थोपसङ्ग्रहादकर्मकत्वम् ।

Padamanjari

Up

ओदनस्य पूर्णा इति। सुहितार्थयोगे षष्ठी भवति, ज्ञापनात्, यदयं पूरणगुणसुहितार्थेति सुहितार्थयोगे या षष्ठी सा न समस्यत इत्याह, तज्ज्ञापयत्याचार्यः- भवति सुहितार्थयोगे षष्ठीति। अकर्मकादिति किमिति। पूर्वसूत्रे वेरिति योगविभागेनेष्टसिद्धिं मन्यते, न चैवमतिप्रसङ्गः, शब्दकर्मण इत्यस्य नियमार्थत्वात् - कर्मणि यदि भवति शब्द एवेति, कट्ंअ विकरोतीति। विपरीतोऽपि नियमः सम्भाव्येत-शब्दे यदि भवति कर्मण्येवेति, ततश्चात्रापि स्यादिति भावः॥