1-3-34 वेः शब्दकर्मणः धातवः आत्मनेपदम् कर्तरि कृञः
index: 1.3.34 sutra: वेः शब्दकर्मणः
शब्दकर्मणः वेः कृञः आत्मनेपदम्
index: 1.3.34 sutra: वेः शब्दकर्मणः
'शब्दम् करोति / उच्चारयति' अस्मिन् अर्थे 'वि' उपसर्गात् 'कृ' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.34 sutra: वेः शब्दकर्मणः
When the उपसर्ग 'वि' is attached to the verb 'कृ', it gets the प्रत्ययाः of आत्मनेपद ; provided the meaning is 'to make sound / to pronounce'.
index: 1.3.34 sutra: वेः शब्दकर्मणः
कृञः इत्यनुवर्तते। विपूर्वत् करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति। कर्मशब्द इह कारकाभिधायी, न क्रियावचनः। क्रोष्टा विकुरुते स्वरान्। ध्वाङ्क्षो विकुरुते स्वरान्। शब्दकर्मणः इति किम्? विकरोति पयः।
index: 1.3.34 sutra: वेः शब्दकर्मणः
स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ।
index: 1.3.34 sutra: वेः शब्दकर्मणः
'शब्दः कर्मपदमस्ति' इत्युक्ते यत्र क्रियायाः कर्मपदम् शब्द/ध्वनिरूपेण भवति । तत्र 'वि + कृ' इत्यस्य आत्मनेपदं भवति । यथा - स्वरान् विकुरुते (उच्चारयति इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव भवति । यथा - कामः चित्तं विकरोति विकुरुते वा (विचलितं करोति इत्यर्थः) ।
index: 1.3.34 sutra: वेः शब्दकर्मणः
वेः शब्दकर्मणः - वेः शब्दकर्मणः । शब्दः कर्म कारकं यस्य तस्मात्कृञो विपूर्वादात्मनेपदमित्यर्थः ।
index: 1.3.34 sutra: वेः शब्दकर्मणः
ठुदोऽनूर्ध्वकर्मणिऽ इत्यादिवत् कर्मशब्दः क्रियावाची मा विज्ञायीत्याह - कर्मशब्द इत्यादि। विपूर्वस्य करोतेः शब्दक्रियायां वृत्यसम्भवात्, कृत्रिमसम्भवे लौकिकस्य ग्रहणायोगाच्च। किंच'वेः शब्दः' इत्येव वक्तव्यम्, कर्मग्रहणमनर्थकम्, विकरेति पय इति सकर्मकत्वाद् उतरेणापि न भवति॥