उद्विभ्यां तपः

1-3-27 उद्विभ्यां तपः धातवः आत्मनेपदम् कर्तरि अकर्मकात् च

Sampurna sutra

Up

अकर्मकात् उद्-वि-भ्याम् तपः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

अकर्मकप्रयोगेषु 'उत्' / 'वि' उपसर्गात् 'तप्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

When either of the उपसर्गs - 'उत्', 'वि' - is attached to the verb 'तप्', it gets the प्रत्ययाः of 'आत्मनेपद' ; provided that the verb is used in an अकर्मक sense.

Kashika

Up

अकर्मकादिति वर्तते। उद् वि इत्येवंपूर्वात् तपतेरकर्मकक्रियावचनादात्मनेपदं भवित। उत्तपते। वितपते। दीप्यत इत्यर्थः। अकर्मकादित्येव — उत्तपति सुवर्णं सुवर्णकारः। वितपति पृष्ठं सविता॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ उत्तपते पाणिम्। उत्तपते पृष्ठम्। वितपते पाणिम्। वितपते पृष्ठम्। स्वाङ्गं चेह न पारिभाषिकं गृह्यते <<अद्रवं मूर्त्तिमत् स्वाङ्गम्>> (काशिका ४.१.५४) इति। किं तर्हि? स्वमङ्गं स्वाङ्गम्। तेनेह न भवति — देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपतीति। उद्विभ्यामिति किम् ? निष्टपति॥

Siddhanta Kaumudi

Up

अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ।<!स्वाङ्गकर्मकाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ स्वमङ्गं स्वाङ्गं न तु अद्रवम्- इति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चेत्रौ मैत्रस्य पाणिमुत्तपति । सन्तापयीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

तप् (सन्तापे) अयं वस्तुतः परस्मैपदी धातुः अस्ति, परन्तु अकर्मकप्रयोगे 'उत् + तप्' तथा 'वि + तप्' एताभ्यामात्मनेपदस्य प्रत्ययाः भवन्ति । यथा - विद्यया विद्यार्थी उत्तपते वितपते वा ('दीप्यते' इत्यर्थः) । सकर्मकप्रयोगे तु परस्मैपदमेव भवति । यथा - सुवर्णकारः सुवर्णं उत्तपति वितपति वा (उष्णीकरोति इत्यर्थः) । वार्तिकम् - <! स्व-अङ्गकर्मकात् चेति वक्तव्यम् !> - सकर्मकप्रयोगे यदि कर्मपदम् कर्तुः शरीरस्य कश्चन अवयवः अस्ति, तर्हि आत्मनेपदमेव भवति । यथा - सः स्वस्य हस्तं उत्तपते वितपते वा (उष्णीकरोति इत्यर्थः) । परस्य हस्तः अस्ति चेत् परस्मैपदमेव - चैत्रः मैत्रस्य पाणिमुत्तपति वितपति वा ।

Balamanorama

Up

<<उद्विभ्यां तपः>> - उद्विभ्यां तपः ।अकर्मकादित्येवे॑ति भाष्यम् । दीप्यते इति । दीप्तिमान् भवतीत्यर्थः । स्वाङकर्मकाच्चेति । 'उद्विभ्यां तप' इत्यनुवर्तते । चकारादकर्मकसमुच्चयः । स्वाङ्गशब्दोऽत्र यौगिक इत्याह — स्वमङ्गमिति । सुवर्णमुत्तपतीति । अस्वाङ्गकर्मकत्वादकर्मकत्वाऽभावाच्च नात्मनेपदमिति भावः । स्वाङ्गशब्दोऽत्र न पारिभाषिकः, किन्तु यौगिक इत्यस्य् प्रयोजनमाह - चैत्रो मैत्रसय् पाणिमुत्तपतीति । अत्रअद्रवं मूर्तिम॑दित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाऽभावान्नात्मनपदमिति भावः ।

Padamanjari

Up

उतपति सुवर्णमित्यत्र सन्तापने विलापने वा तपिर्वर्तत इति सकर्मकत्वम्। स्वमङ्गं स्वाङ्गमिति। यस्मिन्कर्तर्यात्मनेपदं तस्य चेत् स्वमङ्गमित्यर्थः। यद्यन्वर्थग्रहणम्? ततोऽप्राणिन्यपि कर्तरि यस्य यदङ्गं तत्कर्मकादपि प्रसङ्गः। पारिभाषिके त्वेष दोषो न भवति; तस्य प्राणिस्थत्वात्। अन्वर्थेऽपि न दोषः, तपेः प्राणिकर्तृकत्वात्। पारिभाषिकस्य त्वसम्बन्धिशब्दत्वात् कर्तुश्चेत्स्वमङ्गमित्येवं न प्रतीयेतेति भावः॥