अकर्मकाच्च

1-3-26 अकर्मकात् च धातवः आत्मनेपदम् कर्तरि स्थः उपात्

Sampurna sutra

Up

अकर्मकात् उपात् स्थः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

अकर्मकेषु प्रयोगेषु 'उप' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

When the उपसर्ग 'उप' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद ; provided that the verb is used in an अकर्मक sense.

Kashika

Up

उपादिति वर्तते। उपपूर्वात् तिष्ठतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। यावद्भुक्तमुपतिष्ठते। यावदोदनमुपतिष्ठते। भुक्तमिति भावे क्तप्रत्ययः। भोजनेभोजने सन्निधीयत इत्यर्थः। अकर्मकादिति किम्? राजानमुपतिष्ठति॥

Siddhanta Kaumudi

Up

उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'उप + स्था' अस्य अकर्मकप्रयोगे आत्मनेपदं भवति । यथा - यावद् ओदनम्, तावत् सः उपतिष्ठते ('यावत् अन्नम् लभते, तावत् सः समीपे आगच्छति' इत्यर्थः) । यदि अयं धातुः सकर्मक-अर्थे प्रयुज्यते, तर्हि परस्मैपदम् भवेत् । यथा - सः भोजनकाले राजानमुपतिष्ठति । 'राज्ञः समीपे गच्छति' इत्यर्थः ।

Balamanorama

Up

<<अकर्मकाच्च>> - अकर्मकाच्च । उपात्तिष्ठतेरिति ।उपान्मन्त्रकरणे इत्यतः, 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः ।

Padamanjari

Up

अत्रासम्भवात् क्रिया कर्म न गृह्यते, न ह्यास्ति सम्भवःउधातुश्च भवत्यक्रियावचनश्चेति॥ ननु च साधनकर्मणाम्यकर्मकत्वमव्यभिचारादविशेषणम्, न हि शब्दात्मकस्य धातोः कर्मणा योगवियोगौ सम्भवतः, साधनयोगस्य क्रियाधर्मत्वादत आह-अकर्मकक्रियावचनादिति। एतेनाद्वारकमेतद् धातोर्विशेषणमिति दर्शयति। यावद्भुक्तमिति। यथार्थे यदव्ययमिति वीप्सायामव्ययीभावः। सप्तम्यन्तं चैतत्। संनिधीयत इत्यर्थ इति। भावे लकारः। अर्थतोव्याख्यानं चैतत्-यो ह्युपतिष्ठते स संनिधते, यश्च संनिधते तेन संनिधीयते। अकमकादिति किमिति। पूर्वसूत्रे ठुपात्ऽ इति योगविभागादिष्टस्य सिद्धंपश्यति। न चैवमतिप्रसङ्गः,'मन्त्रकरणे' इत्यस्य नियमार्थत्वात्-सकर्मकाद्यदि भवति मन्त्रकरण एवेति। राजानमुपतिष्ठतीति। विपरीतोऽपि नियमः स्यात्-करणे यदि भवति मन्त्रकरण एवेति, ततश्चात्र स्यादेवेति भावः॥