1-3-25 उपात् मन्त्रकरणे धातवः आत्मनेपदम् कर्तरि स्थः
उपात् मन्त्रकरणे स्थः आत्मनेपदम्
'मन्त्रैः निकटगमनम्' अस्मिन् अर्थे 'उप' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
When the उपसर्ग 'उप' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद ; provided the meaning is 'to approach using the मन्त्रs'.
उपपूर्वात् तिष्ठतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति। ऐन्द्र्या गार्हपत्यमुपतिष्ठते। आग्नेय्याग्नीध्रमुपतिष्ठते। मन्त्रकरण इति किम्? भर्तारमुपतिष्ठति यौवनेन॥ उपाद् देवपूजासंगतिकरणमित्रकरणपथिष्विति वाच्यम्॥ देवपूजायाम् — आदित्यमुपतिष्ठते। संगतिकरणे — रथिकानुपतिष्ठते। मित्रकरणे — महामात्रानुपतिष्ठते। मित्रकरणसंगतिकरणयोः को विशेषः? संगतिकरणमुपश्लेषः,तद्यथा — गङ्गा यमुनामुपतिष्ठते। मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसंबन्धः। पथि — अयं पन्थाः स्रुघ्नमुपतिष्ठते॥ वा लिप्सायामिति वक्तव्यम्॥ भिक्षुको ब्राह्मणकुलमुपतिष्ठते, उपतिष्ठतीति वा॥
आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन ।<!उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् !> (वार्तिकम्) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ।<!वा लिप्सायामिति वक्तव्यम् !> (वार्तिकम्) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ॥
'मन्त्रकरणम्' इत्युक्ते 'मन्त्रैः वैदिकदेवतायाः स्तुतिकरणम्' । अस्मिन् अर्थे 'उप + स्था' इत्यस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - सः गार्ह्यपत्यमुपतिष्ठते ('मन्त्रेण अग्नेः स्तुतिं करोति' इत्यर्थः) । यत्र वैदिकदेवतायाः स्तुतिः नास्ति तत्र तु परस्मैपदमेव भवति । यथा - पत्नी भर्तारमुपतिष्ठति (भर्तारम् स्तौति इत्यर्थः) । अत्र वार्तिकद्वयं ज्ञातव्यम् - 1) <!उपात् देवपूजा-सङ्गतिकरण-मित्रकरण-पथिष्विति वाच्यम् !> - उप + स्था इत्यस्य एतेषु अर्थेषु अपि आत्मनेपदम् भवति - क) देवपूजा - आदित्यं उपतिष्ठते । 'सूर्यं पूजति' इत्यर्थः । ख) सङ्गतिकरणम् (उपश्लेषः / निकटसम्बन्धः / युतिः) - गङ्गा यमुनामुपतिष्ठते । यमुनया सह उपश्लेषं करोति इत्यर्थः । ग) मित्रकरणम् - दुर्योधनः कर्णमुपतिष्ठते । 'कर्णेन सह मित्रतामाचरति' इत्यर्थः । घ) पन्थाः (मार्गः) - अयं पन्थाः तक्षशीलामुपतिष्ठते । 'अयं मार्गः तक्षशीलां प्रति गच्छति' इत्यर्थः । 2) <!वा लिप्सायामिति वक्तव्यम् !> - लिप्सा ('प्राप्तेः इच्छा') अस्मिन् अर्थे उप + स्था इत्यस्मात् वैकल्पिकमात्मनेपदम् भवति । यथा - भिक्षुकः धनिकमुपतिष्ठते उपतिष्ठति वा । 'धनप्राप्तेः इच्छया धनिकस्य समीपं गच्छति' इत्यर्थः। ज्ञातव्यम् - <<अकर्मकाच्च>> 1.3.26 इत्यनेन अग्रिमसूत्रेण 'उप + स्था' इत्यस्य अकर्मकप्रयोगे आत्मनेपदम् भवति ; सकर्मकप्रयोगे तु परस्मैपदमेव क्रियते । परन्तु 'आदित्यमुपतिष्ठते', 'कर्णमुपतिष्ठते', 'तक्षशीलामुपतिष्ठते', 'धनिकमुपतिष्ठते' - आदिषु वाक्येषु यद्यपि सकर्मकप्रयोगः दृश्यते, तथापि वर्तमानसूत्रे निर्दिष्टयोः वार्त्तिकयोः सामर्थ्यात् एतेषु उदाहरणेषु आत्मनेपदमेव क्रियते ।
<<उपान्मन्त्रकरणे>> - उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्ते विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात्स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्रधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाऽभावात् । उपाद्देवपूजा — इति वार्तिकम् । अमन्त्रकरणकत्वार्तम् । आदित्यनुपतिष्ठते इति । अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तर्हीति । रघोर्देवतात्वाभावादिति भावः । समाधत्ते — देवतात्वारोपादिति । नृपस्येति ।नाऽविष्णुः पृथिवीपति॑रित्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकाऽर्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः ।
पारिभाषिकमत्र करणं गृह्यते, मन्त्रः करणं यस्यार्थस्य तस्मिन्वर्तमानादित्यर्थः। उपादित्यादि। अमन्त्रकरणार्थमिदम्। सङ्गतकरणमुपश्लेष इति। विनापि मैत्रीसम्बन्धात्। स्त्रु घ्नमुपतिष्ठते इति। प्राप्नोतित्यर्थः। भिक्षुक इति। लिप्सया हेतुभूतया ब्रह्मणकुलमुपगच्छतीत्यर्थः॥