उदोऽनूर्ध्वकर्मणि

1-3-24 उदः अनूर्ध्वकर्मणि धातवः आत्मनेपदम् कर्तरि स्थः

Sampurna sutra

Up

उदः स्थः अनूर्ध्वकर्मणि आत्मनेपदम्

Neelesh Sanskrit Brief

Up

उत्थानक्रियां वर्जयित्वा अन्यत्र 'उत्' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

When the उपसर्ग 'उत्' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद, provided that the meaning is not 'moving upwards / standing up'.

Kashika

Up

उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति। कर्मशब्दः क्रियावाची। अनूर्ध्वकर्मविशिष्टात् क्रियावचनात् तिष्ठतेरात्मनेपदं भवति। गेह उत्तिष्ठते। कुटुम्ब उत्तिष्ठते। तदर्थं यतत इत्यर्थः॥ उद ईहायामिति वक्तव्यम्॥ इह मा भूत् — अस्माद् ग्रामात् शतमुत्तिष्ठति। शतमुत्पद्यत इत्यर्थः। ईहाग्रहणमनूर्ध्वकर्मण एव विशेषणम्, नापवादः। अनूर्ध्वकर्मणीति किम्? आसनादुत्तिष्ठति॥

Siddhanta Kaumudi

Up

मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति ।<!ईहायामेव !> (वार्तिकम्) ॥ नेह । ग्राच्छतमुत्तिष्ठति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

स्था (गतिनिवृत्तयोः) अयं धातुः वस्तुतः परस्मैपदी । परन्तु उद्-उपसर्गात् परः स्था धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - शिष्यः मुक्तौ उत्तिष्ठते ('मुक्तिं प्राप्तुं प्रयतते' इत्यर्थः) । परन्तु यदि 'ऊर्ध्वदेशसंयोगानुकूलक्रिया' अस्ति, (इत्युक्ते, यदि क्रियया ऊर्ध्वदिशि स्थितस्य स्थलस्य अधिकं सामीप्यं जायते), तर्हि उद् + स्था इत्यस्य परस्मैपदमेव भवति । यथा - शिष्यः आसनाद् उत्तिष्ठति । अत्र आसनविलगक्रियया आसनात् ऊर्ध्वदिशि यत् क्षेत्रम्, तस्य सामीप्यं जायते, अतः अत्र ऊर्ध्वदेशसंयोगानुकूलक्रिया अस्ति । वार्तिकम् - <!ईहायामेव !> । 'उद् + स्था' इत्यनेन निर्दिष्टा क्रिया यदि कर्त्रा 'ईहया' क्रियते (इत्युक्ते, 'सक्रियरूपेण क्रियते / श्रमेण स्वेच्छया वा क्रियते'), तर्हि एव आत्मनेपदम् भवति, नो चेत् परस्मैपदमेव भवति । यथा - ग्रामात् शतमुत्तिष्ठति । ('ग्रामात् शतं (व्रीहिः) जायते' इत्यर्थः । यद्यप्यत्र ऊर्ध्वदेशसंयोगानूकुलक्रिया नास्ति, तथाप्यत्र आत्मनेपदस्य प्रयोगः न क्रियते, यतः अत्र व्रीहिनिर्माणकार्यम् व्रीहेः इच्छया श्रमेण वा न भवति । (वाक्येऽस्मिन् 'शतम्' इति कर्ता अस्तीति स्मर्तव्यम्)) । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'कर्म'शब्दः कारकं न दर्शयति, अपितु क्रियां दर्शयति ।

Balamanorama

Up

<<उदोऽनूर्द्ध्वकर्मणि>> - उदोऽनुध्र्वकर्मणि । ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म । तद्भिन्नमनूध्र्वकर्म । तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः । पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव - इति वार्तिकम् । ईहा कायपरिस्पन्दः । ग्रामाच्छतमुत्तिष्ठतीति । उत्पद्यत इत्यर्थः ।

Padamanjari

Up

कर्मशब्दः क्रियावाचीति। साधनकर्मणि धातोर्वृत्यसम्भवादिति भावः। उद ईहायामिति । ईहाउपरिस्पन्दः। ईहाग्रहणमित्यादि। ईहात्मकं यदनूर्ध्वकर्म इत्येवमनूर्ध्वकर्मण एव विशेषणमीहाग्रहणम्, न पुनरनूर्ध्वकर्मग्रहणमपनीय ईहाग्रहणं कर्तव्यमित्युच्यते इत्यर्थः। तथा हि सत्यासनादुतिष्ठतीत्यत्रापि स्यात्, परिस्पन्दरूपत्वादुत्थानस्येति भावः। उद ईहायामित्येतत्कर्मग्रहणात् सिद्धमित्याहुः। कथम्? ठीहाऽनूर्ध्वऽ इत्येतावताऽनूर्ध्वताविशिष्ट्ंअ क्रियावाचित्वं सिद्धम्, धातोः क्रियावाचित्वात्। एवं सिद्धे कर्मग्रहणाल्लोकप्रसिद्धं परिस्पन्दात्मकं कर्म गृह्यत इति॥