प्रकाशनस्थेयाख्ययोश्च

1-3-23 प्रकाशनस्थेयाख्ययोः च धातवः आत्मनेपदम् कर्तरि स्थः

Sampurna sutra

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


प्रकाशन-स्थेयाख्ययोः स्थः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


प्रकाशनम् (स्पष्टरूपेण स्वमतप्रदर्शनम्) तथा स्थेयाख्या (विवादे निर्णयप्रदर्शनम्) - एतयोः अर्थयोः प्रयुक्तात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


The verb स्था gets the प्रत्ययाः of आत्मनेपद when used in the meaning of - (a) Clearing explaining own opinion, and (b) Putting and end to a question / debate.

Kashika

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


स्वाभिप्रायकथनं प्रकाशनम्। स्थेयस्य आख्या स्थेयाख्या। तिष्ठत्यस्मिन्निति स्थेयः। विवादपदनिर्णेता लोके स्थेयः इति प्रसिधः। तस्य प्रतिपत्त्यर्थमाख्याग्रहणम्। प्रकाशने स्थेयाऽख्यायां च तिष्ठतेरात्मनेपदं भवति। प्रकाशने तावत् तिष्ठते कन्या धात्रेभ्यः। तिष्ठते वृषली ग्रामपुत्रेभ्यः। प्रकाशयत्यात्मानम् इत्यर्थः। स्थेयाऽख्यायाम् त्वयि तिष्ठते। मयि तिष्ठते। संशय्य कर्णादिषु तिष्ठते यः।

Siddhanta Kaumudi

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ।

Neelesh Sanskrit Detailed

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


'प्रकाशनम्' इत्युक्ते 'स्वस्य हेतोः स्पष्टरूपेण कथनम्' । 'स्थेयाख्या' इत्युक्ते 'विवादे निर्णयदानम्' । एतयोः अर्थयोः स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - गोपी कृष्णाय तिष्ठते ('गोपी स्वस्य मनसः हेतुः कृष्णस्य समीपे प्रकटीकरोति' इत्यर्थः), कर्णार्जुनवादः द्रोणे तिष्ठते ('कर्णार्जुनवादे द्रोणः निर्णयं करोति' इत्यर्थः)

Balamanorama

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


प्रकाशनस्थेयाख्ययोश्च - प्रकाशन । प्रकाशनं — स्वाभिप्रायाविष्करणम् । स्थेयः — विवादपदनिर्णेता । तिष्ठति = विश्राम्यति विवादपदनिर्णयोऽस्मिन्नित्यर्थे बाहुलके अधिकरणे 'अचो यत्' इति यति [ईत्वे] स्थेयशब्दव्युत्पत्तेः ।स्थेयो विवादस्थानस्य निर्मएतरि पुरोहिते॑ इति मेदिनी । इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः । आख्या = अभिधानम् । प्रकाशनाख्यायां, स्थेयाख्यायां च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः । प्रकाशने उदाहरति - गोपी कृष्णाय तिष्ठते इति ।श्लाघह्नुङ्स्थाशपा॑मिति संप्रदानत्वाच्चतुर्थी । स्थेये उदाहरति- - संशय्येति । कर्णादिष्विति विषयसप्तमी । फलितमाह — कर्णादीनिति ।

Padamanjari

Up

index: 1.3.23 sutra: प्रकाशनस्थेयाख्ययोश्च


स्वाभिप्रायकथनमिति। कथनमाविष्करणमात्रं न तु शब्देनैव, तेनाभाषमाणायामपि कन्यकायां भवति। तिष्ठत्यस्मिन्निति। प्रकरणादिनात्र विवादपदनिर्णेतुः प्रतीतिः, न तु शाब्दीति विग्रहवाक्ये आत्मनेपदं न कृतम्। संशय्य कर्णादिष्विति। संशयस्थानेषु कर्णादीन् निर्णेतृत्वेनाश्रयतीत्यर्थः॥