1-3-22 समवप्रविभ्यः स्थः धातवः आत्मनेपदम् कर्तरि
सम्-अव-प्र-विभ्यः स्थः आत्मनेपदम्
'सम् ' / 'अव' / 'प्र' / 'वि' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
When any of the उपसर्गs - सम् , अव, प्र, वि - is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद.
सम् अव प्र वि इत्येवंपूर्वात् तिष्ठतेरात्मनेपदं भवति। संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥ आङःस्थः प्रतिज्ञान इति वक्तव्यम्॥ अस्तिं सकारमातिष्ठते। आगमौ गुणवृद्धी आतिष्ठते॥
सन्तिष्ठते । स्थाघ्वोरिच्च -<{SK2389}> । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते ।<!आङः प्रतिज्ञायामुपसंख्यानम् !> (वार्तिकम्) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥
संतिष्ठते। अवतिष्ठते। प्रतिष्ठते। वितिष्ठते॥
स्था (गतिनिवृतौ) अयं धातुः वस्तुतः परस्मैपदी अस्ति । परन्तु सम् / अव / प्र / वि - एतेभ्यः परस्य स्था-धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - संतिष्ठते ('समाप्तं भवति' इत्यर्थः), अवतिष्ठते ('अस्ति, स्थिरः भवति' इत्यर्थः) , प्रतिष्ठते ('स्थापना भवति / निर्गच्छति' इत्यर्थः) , वितिष्ठते ('स्थिरः भवति' इत्यर्थः) । वार्त्तिकम् - <!आङः प्रतिज्ञायामुपसंख्यानम् !> - 'प्रतिज्ञां करोति' अस्मिन् अर्थे 'आङ् + स्था' इत्यस्य आत्मनेपदं भवति । यथा - शब्दं आतिष्ठेऽहम् ('अहम् यम् शब्दमुक्तवान्, तावदेव अनुसरामि - इति प्रतिज्ञां करोमि' इत्यर्थः)।
<<समवप्रविभ्यः स्थः>> - समवप्रविभ्यः स्थः । स्थ इति पञ्चमी । समव प्र वि एभ्यः परस्मात्स्थाधातोरात्मनेपदमित्यर्थः । संतिष्ठते इति । समाप्तं भवतीत्यर्थः ।
सन्तिष्ठत इति। पाघ्रादिसूत्रेण तिष्ठादेशः। अत्राप्युपसर्गग्रहणादिह न भवति-वे तिष्ठसि, वी तिष्ठत इति। अस्तिं सकारमिति। श्तः सन्तीत्यादौ सकारमात्रस्य दर्शनात्'स भुवि' इत्यवे धातुः पाठयः, अस्तीत्यादौ पिति सार्वधातुके अडागमो विधेयः, आस्तामासन्नित्यादौ आडागमः स्यात्' इति आपिशला मन्यन्ते । गुणस्य त्वागमत्वे उदाहरणं मृग्यम्॥