1-3-20 आङः दः अनास्यविहरणे धातवः आत्मनेपदम् कर्तरि
आङः दः अनास्यविहरणे आत्मनेपदम्
'मुखस्य उद्घाटनम्' एतमर्थम् वर्जयित्वा अन्येषु अर्थेषु 'आङ्' उपसर्गात् 'दा' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
When the उपसर्ग आङ् is attached to the verb 'दा'; it gets the प्रत्ययाः of आत्मनेपद, provided that the meaning is something other than 'opening the mouth'.
अकर्त्रभिप्रायार्थोऽयमारम्भः। आङ्पूर्वाद् ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति। विद्यामादत्ते। अनास्यविहरण इति किम्? आस्यं व्याददाति॥ आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः॥ विपादिकां व्याददाति। कूलं व्याददाति ॥ स्वाङ्गकर्मकाच्चेति वक्तव्यम्॥ इह मा भूत् — व्याददते पिपीलिकाः पतङ्गस्य मुखम्॥
आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेदं स्यात् । विद्यमादत्ते । अनास्येति किम् ? मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति ।<!पराङ्गकर्मकान्न निषेधः !> (वार्तिकम्) ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥
वस्तुतः डुदाञ् (दाने) अयमुभयपदी धातुः अस्ति । परन्तु आङ्-उपसर्गपूर्वकः दा-धातुः आत्मनेपदी भवति । यथा - छात्रः विद्यामादत्ते (गृह्णाति इत्यर्थः) । परन्तु 'मुखस्य उद्घाटनम् / विकसनम्' अस्मिन् अर्थे अयं धातुः परस्मैपदमेव स्वीकरोति । यथा - सः मुखम् व्याददाति (उद्घाटयति इत्यर्थः) । अस्मिन् विषये वार्तिकद्वयं ज्ञातव्यम् - 1.<!आस्यग्रहणमविवक्षितम्!> - या क्रिया 'विकसनक्रिया' / 'उद्घाटनक्रिया' अस्ति, सा यद्यपि 'मुखस्य' विषये नास्ति, तथापि केवलं परस्मैपदिनः प्रत्ययाः एव प्रयोक्तव्याः । यथा - नदी तटं व्याददाति (तटस्य विच्छेदं कृत्वा विकसति इत्यर्थः) । अत्र विकसनक्रिया नद्याः स्वयं अस्ति, तटस्य न इति ज्ञातव्यम् । 2. <!स्वाङ्गकर्मकाच् चेति वक्तव्यम् !> - यत्र विकसनक्रियायाः कर्तुः विकसनम् न भवति, कस्यचित् अन्यस्यैव भवति, तत्र अयं प्रतिषेधः न भवति - इत्युक्ते, तत्र 'आङ् + दा' इत्यस्य आत्मनेपदमेव करणीयम् । यथा - पिपीलिकाः पतङ्गस्य मुखम् व्याददते (उद्घाटयन्ति इत्यर्थः) ।
<<आङो दोऽनास्यविहरणे>> - आङो दो । आस्यविहरणं — मुखविकसनम् । दा इत्यस्य दः इति पञ्चमी । तदाह — ददातेर्मुखविकसनादन्यत्रेति । विद्यामादत्ते इति । गृह्णातीत्यर्थः । दाञो ञित्त्वेऽप्यकत्र्रभिप्रायार्थमिदम् । अविवक्षितमिति । 'अविहरणे' इत्येतावदेव विवक्षितमित्यर्थः । विपादिकां व्याददातीति । क्षारौषधादिना विदारयतीत्यर्थः । अत्र आस्यविहरणाऽभावेऽपि विकसनसत्त्वान्नात्मनेपदमिति भावः । नदी कूलं व्याददातीति । भिनत्तीत्यर्थः । अत्रापि विकसनसत्त्वादास्यविहरणाऽभावेऽपि नात्मनेपदम् । पराङ्गकर्मकान्न निषेध इति, - वार्तिकम् । पतङ्गस्येति । पक्षिणो मुखं भक्षणाय विकासयन्तीत्यर्थः ।
यथैवावत्सा धेनुरानीयतामित्युक्ते सम्भवद्वत्ससम्बन्धा गोधेनुरेवानोयते, न महिष्यादिधेनुः, तथेहापि सम्भवदास्यविहरणस्य'डुदाञ् दाने' इत्यस्यैव ग्रहणम्, न तु'गामादाग्रहणेष्वविशेषः' इति सर्वेषां दारूपाणामित्याह-आङ्पूर्वाद्दाञ इति॥ आदत इति । श्लौ द्विर्वचनम्, पूर्ववदाकारलोपः, दकारस्य चर्त्वम्। क्वचिद्-आङे ङिद्रिशिष्टस्य किम् ? भिक्क्षामाददातीति पठ।ल्ते, तत्र स्मृतावाकारः। आस्यविहरणसमानक्रियादपीति। कथमिह ठाङे दोऽनास्येऽइतीयता सिद्धं द्रव्ये धातोर्वृत्यसम्भवादास्यसमवायिन्यां क्रियायां वर्तमानस्य समुदायस्य निषेधो विज्ञायते, नचैवं स्वं मुखमादत इत्यत्रापि मुखविषयत्वादानस्य प्रतिषेधप्रसङ्गः, ग्राह्यास्य एव समवेता क्रिया, तस्यां वर्तमानो ददातिरास्ये वृत्तिर्भवति, ग्रहणन्तु ग्राह्यहिणोरुभयोरपि समवेतम्। अनास्य इति पर्युदासः, आस्यानास्यसमुदायश्चास्यादन्य इति विधिरेव भविष्यति । एवं सिद्धे विहरणग्रहणं विहरणविशेषोपलक्षार्थम्, तेनासत्यप्यास्ये ताद्दशे विहरणे भविष्यति याद्दशमास्यविहरणमास्यव्यादानम्। विपादिकेति । पादस्फोटःउविपादिका। स्वाङ्गकर्मकाच्चेति। स्वमङ्गं स्वाङ्गम् न तु पारिभाषिकमद्रवादिलक्षणम्। एतच्च न्यायसिद्धमेवोक्तम्, कथम् ? कर्तरीति वर्तते, आस्यशब्दश्चायं सम्बन्धिशब्दः, कस्यास्यमित्यपेक्षायां यस्मिन् कर्तर्यात्मनेपदं तस्य चेतदास्यमिति विज्ञाते तेन परकीयास्यविहरणे विधिरेव भवति॥