1-3-18 परिव्यवेभ्यः क्रियः धातवः आत्मनेपदम् कर्तरि
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
परि-वि-अवेभ्यः क्रियः आत्मनेपदम्
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
'परि' / 'वि' / 'अव' उपसर्गेभ्यः 'क्री' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
When any of the उपसर्गs - परि, वि, अव - is attached to the verb 'क्री', it gets the प्रत्ययाः of आत्मनेपद.
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
डुक्रिञ् द्रव्यविनिमये। ञित्वात् कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम्। अकर्त्रभिप्रायार्थोऽयमारम्भः। परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं भवति। परिक्रीणीते। विक्रीणीते। अवक्रीणीते। पर्यादय उपसर्गा गृह्यन्ते तेन इह न भवति, वहुवि क्रीणाति वनम्।
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते - विक्रीणीते - अवक्रीणीते ।
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
परिक्रीणीते। विक्रीणीते। अवक्रीणीते॥
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
वस्तुतः क्री (द्रव्यविनिमये) अयं उभयपदी धातुः अस्ति, परन्तु परि / वि / अव - एभ्यः उपसर्गेभ्यः परः क्री-धातुः (कर्तरि क्रियायाः फलम् न भवति चेत् अपि) आत्मनेपदस्य प्रत्ययान् एव प्राप्नोति ।
यथा - परिक्रीणीते (प्राप्नोति / लभते ) , विक्रीणीते (धनं स्वीकृत्य वस्तु ददाति), अवक्रीणीते (उत्कोचं ददाति / भ्रष्टाचारेण धनं ददाति) ।
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
परिव्यवेभ्यः क्रियः - परि वि अव एभ्य परस्मात् क्रीञ्दातोरात्मनेपदमित्यर्थः । ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह — अकत्र्रभिप्रायार्थमिति ।
index: 1.3.18 sutra: परिव्यवेभ्यः क्रियः
पर्यादय उपसर्गा गृह्यन्त इति कथं'क्रियः' इति षष्ठी, उसर्गैरेव पर्यादिभिरर्थद्वारको विशेषणविशेष्यभावलक्षणसम्बन्धः, न च क्रियो चे उपसर्गास्तेभ्यः परं धात्वन्तरं सम्भवतीति क्रीणातेरेवात्मनेपदं भवतीति। यद्वा - पर्यादिविशेषणाय षष्ठीमनुभूयात्मनेपदसम्बन्धे'क्रियः' इति पञ्चमी सम्पद्यते, तदाह - इत्येतेभ्य उतरस्मात् क्रीणातेरिति। बहुवीति। बहवो वयः पक्षिणोऽस्मिन्निति बहुव्रीहिः, कर्मपदं चैतत्, पक्षिवाचिनो विशब्दस्य नपुंसकत्वाभावाद् विभक्त्यास्य व्यवधानात्केवलो नोदाहृतः। ननु बहुव्रीहावपि जहत्स्वार्थायां वृतौ वेरानर्थक्यम्, अजहस्त्वार्थायामपि तदर्थस्योपसर्जनत्वमिति न भविष्यति ? एवं तर्ह्युदाहरणदिगियं दर्शिता। इद तत्रोदाहरणम्-वे क्रीणासि, अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, वी क्रीणीतः- अत्रैकादेशस्य पूर्वं प्रत्यन्तवद्भावात्प्रसङ्गः॥