इको झल्

1-2-9 इकः झल् कित् संश्च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सन्नित्यनुवर्तते। क्त्वेति निवृत्तम्। इगन्ताद् धातोः परो झलादिः सन् किद् भवति। चिचीषति। तुष्टूषति। चिकीर्षति। इक इति किम्? पिपासति। तिष्ठासति। झलिति किम्? शिशयिषते। किमर्थमिदमुच्यते? गुणो मा भूदिति। <<अज्झनगमां सनि>> (६.४.१६) इति दीर्घत्वं गुणस्य बाधकं भविष्यति। यथैव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बाधेत। तस्माद् दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। चिचीषतीत्यादिषु सावकाशं दीर्घत्वं परत्वाद् णिलोपेन बाध्यते। ज्ञीप्सति॥

इकः कित्त्वं गुणो मा भूद् दीर्घारम्भात्कृते भवेत्।

अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते॥ १॥

सामर्थ्याद्धि पुनर्भाव्यमृृदित्त्वं दीर्घसंश्रयम्।

दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम्॥ २॥

Siddhanta Kaumudi

Up

इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् मीनातिमिनोति - <{SK2508}> इत्यात्वं न । अत एव सनि मीमा - <{SK2623}> इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥

Laghu Siddhanta Kaumudi

Up

इगन्ताज्झलादिः सन् कित् स्यात्। ॠत इद्धातोः। कर्तुमिच्छति चिकीर्षति॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इको झल्>> - इको झल् । इगन्तादिति । सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति ।रुदविदमुषग्रही॑त्यतः,असंयोगाल्लिट्कि॑दित्यश्च तदनुवृत्तेरिति भावः । बुभूषतीति । कित्त्वान्न गुणः । इकः परत्वान्नेट् । दिदीषते इति । सनः कित्त्वान्न गुणः । दीङो ङित्त्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् । एज्विषयत्वाभवादिति । कित्त्वे गुणनिषेधादिति भावः । अत एवेति । यद्येज्विषयादन्यत्राप्यात्वं स्यात्तदा मीमेति पृथग्ग्रहणमनर्थकं स्यात्,गामादाग्रहणेष्विशेषः॑ इत्युक्तेरिति भावः ।

Padamanjari

Up

सनाक्षिप्तस्य धातोरिका विशेषणातदन्तविधिर्भवतीत्याह - इगन्ताद्धातोरिति । ऽइक् स्मरणेऽ इत्यास्य तु धातोर्ग्रहणं न भवति, न ह्यतः परो झलादिसन् सम्भवति, कथम् ? ऽइणो गा लुङ्ऽ ऽणिउ गमिरवबोधनेऽ ऽसनि चऽ ऽइण्वदिक इति वक्तव्यम्ऽ ऽगमेरिट् परस्मैपदेषुऽ - अधिजेगमिषति । ननु च भावकर्मणओरात्मनेपदे ऽअनुदातोपदेशऽ इत्यनुनासिकलोपार्थमेतत्स्यात्, तत्र तु रूपे विप्रतिपतिः, गमेरिङदेशस्य ग्रहणमिति वचनात् ऽअज्झनगमां सनिऽ इति दीर्घो न भवति-अधिजिगंस्यत इति केचित् । अन्ये त्वाहुः-ठ्ठ्ठज्झनगमान्ऽ इत्यत्राज्ग्रहणं न कर्तव्यम्, कथम् ? ऽसनि दीर्घःऽ इत्येको योगः, अचश्च , एवं सिद्धेऽजग्रहणं प्रवृत्तिभेदेन गमेरपि विशेषणाअर्थम् - अजादेशस्य गमेरिति; तेनास्यापि दीर्घेण भाव्यम्, अजादेशत्वाद्-अधिजिगांस्यत इति रूपमिति । तदेवं धातोरपि ग्रहणं युक्तमेव । एवं तर्हि झला साहचर्याद् गर्गादिषु जिगीषुशब्दस्य पाठाच्च प्रत्याहारस्य ग्रहणमुतरसूत्रे च इक्समीपाद्धलः पर इत्यनुपपन्नं धातुग्रहणे । झलादिरिति । कथं पुनस्सत्सप्तमीनिर्देशे तदादिविधिः शक्यो विज्ञातुम् ? झल्मात्रस्य सनोऽसम्भवात् । ननु च चिकीर्षितेत्यादवतो लोपे सति सम्भवति, अपूर्वविधत्वाच्च न लोपस्य स्थानिवत्वाम्; एवं तर्हि वृद्धिसंज्ञासूत्राद्यस्यादिरिति वर्तते सन् किद्भवति, कीदृशः ? यस्य ढलादिरिति । एतेन तदन्तविधिरपि निरस्तो वेदितव्यः । चिचीषतीति । ऽएकाचःऽ इतीट्प्रतिषेधः । तुष्टूअषतीति । ऽशर्पूर्वाः खयःऽ । शिशयिषत इति । ऽपूर्ववत्सनःऽ । किमर्थमिति । योगविभागविषयः प्रश्नः । सूत्रं तूतरार्थं कर्तव्यम् । दीर्घत्वगुणस्य बाधकं भविष्यतीति । ननु ऽकुङ्शब्देऽ कटादिः, चुकूषत इत्यस्मि दीर्घस्यावकाशः ? दीर्घान्तोऽयमित्यवोचाम् । इह तर्हि ऽगु पुरीषोत्सर्गेऽ ऽध्रु गतिस्थैर्ययोःऽ कुटादी, जुगूषति, दुधूषति । एवमपि प्रत्याहारग्रहणमनर्थकम् ऽउतो दीर्घऽ इति वक्त्वयम् ? अस्ति प्रत्याहारग्रहणे प्रयोजनम्, किम् ? प्रतिभेदेन गमिमपि विशेषयिष्यामीति । यद्येतावत्प्रयोजनं स्यात् ऽउतो दीर्घऽ इत्युक्त्वा इङ्हन्योरिति वक्तव्यम्-येषां समेरिङदेशस्य ग्रहणमिति पक्षः । येषामनिङदेशस्यापि ग्रहणं तेषामिहन्योरिति वक्तव्यम्, हना साहचर्यादिरिति धातुर्गृह्यते, नेकारः, तस्मादज्गरहणसामर्थ्याद्दीर्घत्वं गुणस्य बाधकं भविष्यतीति सुष्ठूअक्तम् । यथैव तर्हि झलादौ गुणो बाध्यते, एवमिङदावपि बाध्येत - जिजविषयति, नात्र दीर्धः प्रवर्तते, किं असति हि कित्वे नाप्राप्ते विध्यन्तरे आरभ्यमाणं दीर्घत्वं यथा गुणं बाधते एवं णिलोपमपि बाधेन । ननु यत्र नाप्राप्ते तस्य बाधकः, क्व च नाप्राप्ते ? दीर्घ आरभ्यते, गुणे णिलोपे तु ज्ञीप्सतीत्यत्र प्राप्ते, चिचीषतीत्यत्राप्राप्ते पाक्षिक एव परिहारः । यत्र बाध्यं भेदेनापेक्ष्यते - ऽइदमस्मिन्विषये प्राप्तमिदमस्तिन्विषयेऽ इति, तत्रैकबाधेनोपपतौ सत्यामनेकबाधो न न्याय्य इति किमेकं बाध्यतामित्यपेक्षायाम् ऽयेन नअप्राप्ते स बाधनीटःऽ इत्युच्यते, एवं ह्यपेक्षितविधिर्भवति । यदि तु ऽनाप्राप्ते विध्यन्तरे इदमारभ्यतेऽ इति कार्यसामान्यमपेक्ष्यते, तदा सर्वमेव बाधनीयम् । एतेन पुरस्तादपवादन्यायेन णिलोपमेव दीर्घत्वं बाधेत, न गुणमित्यपि चोद्यं निरस्तम्; यस्यादयमपि न्यायः कार्यसमान्यचिन्तायां नास्त्येव । अतः सुष्ठूअक्तम् - णिलोपमपि बाधेतेति । दीर्घत्वस्यावकाशदानायेति । एतदेव स्फुटयति-चिचीषतीत्यादि ष्विति । सति हि कत्वे चिचीषतीत्यादौ कित्वेनैव गुणो बाध्यते, न दीर्घेणेत्यबाधित्वैव विध्यन्तरं सावकाशो दीर्घः परत्वाण्णिलोपेन बाध्यत इत्यर्थः । ज्ञीप्सतीति । ऽमारणतोषणनिशामनेषु ज्ञाऽ, ऽज्ञप मिच्चऽ इति चुरादिषु पाठाद् णिचि पुकि ऽमितां ह्रस्वःऽ, सन्, ऽसनीबन्तर्द्धऽ इतीडभावक्षे ऽआप्ज्ञपृधामीत्ऽ इतीत्वम्, ऽअत्र लोपोऽभ्यासस्य ऽ । किमर्थो योगविभाग इत्यशङ्क्य प्रयोजनमाह - इकः कितवमित्यादि । गुणो मा भूदित्येवमर्थमिक उतरस्य सनः कित्वं विधीयतैत्यर्थः । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । कृते भवेदिति । शास्त्रमावर्तमानं जपादिवद्भर्मे साधनमिति भावः । अनर्थकं त्विति । शास्त्रपूर्वकात्प्रयोगाद्धर्मो न तु प्रवृत्तिमात्रादिति भावः । ननु च ऽसनि मीमाघुऽ इत्यत्र मिनोतेरपि मीग्रहणएन ग्रहणार्थं दीर्घविधिः स्याद्, मा भून्मीग्रहणेन ग्रहणम्, ऽमीनातिमिनोतिदीङं ल्यपि चऽ इत्यात्वे कृते ऽगामादाग्रहणेष्वविशेषःऽ इति माग्रहणेन ग्रहणं भविष्यति; तत्रायमप्यर्थो मीग्रहणमपि न कर्तव्यं भवति । ह्रस्वार्थमिति । ह्रस्वानामेव दीर्घविधानासामर्थ्याद् गुणो न स्याद्, दीर्घाणां तु पुनः प्राप्नोति - लुलूषति; न हि दोर्घान्तेषु दीर्घशास्त्रं प्रवर्तते, पूर्वमेव तद्रूपसद्भावादिति भावः । सामार्थ्याद्धि पुनर्भाव्यमिति । सामर्थ्यमु प्रयोजनसद्भावः, यथा ऽमो राजि समः क्वौऽ इति मकारस्यैव मकारो विधीयते, विकारान्तरं मा भूदिति । तथा दीर्घस्यापि गुणो मा भूदिति पुनर्दीर्धो भविष्यति । यदि तर्हि प्राप्नुवन्विधिः दीर्घेण बाध्यते, आञ्दित्वामपि न प्राप्नोति-चिकीर्षति, तत्राह - आञ्दित्वं दीर्घसंश्रयमिति । दीर्घः संश्रयो निमितं यस्य ततथोक्तम् । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते । न चात्राकृते दीर्घे आञ्दित्वं प्राप्नोति । इह तर्हि-तितीर्षति, अकृतेऽपि दीर्घत्वे आञ्दित्वं प्राप्नोतीति ? आञ्दित्वानिवृत्यर्थमेव दीर्घत्वं स्याद्, अत आह-दीर्घाणां नाकृते दीर्घ इति । दीर्घाणामप्यकृते दीर्घत्वे ऋदित्वं न प्राप्नोति, किं कारणम् ? इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन, अतो यावद्दीर्धेण गुणो न बाधितः, तावदित्वं न पाप्नोति; तस्मान्नार्थ एतेनेति स्थिते प्रयोजनमाह - णिलोपस्त्विति ॥