रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च

1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च कित् क्त्वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

रुद विद मुष ग्रहि स्वपि प्रच्छ् इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः। रुदविदमुषीणां <<रलो व्युपधाद्०>> (१.२.२६) इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम्। ग्रहेर्विध्यर्थमेव। स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम्। किदेव हि क्त्वा। रुदित्वा, रुरुदिषति। विदित्वा, विविदिषति। मुषित्वा, मुमुषिषति। गृहीत्वा, जिघृक्षति। सुप्त्वा, सुषुप्सति। पृष्ट्वा, पिपृच्छिषति। ग्रहादीनां कित्त्वात् संप्रसारणं भवति। <<किरश्च पञ्चभ्यः>> (७.२.७५) इति प्रच्छेरिडागमः॥

Siddhanta Kaumudi

Up

एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ॥

Laghu Siddhanta Kaumudi

Up

मुखसहतिनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च>> - रुदविद । इका निर्देशात् संप्रसारणे गृहीति निर्देशः । स्वपीति इकारस्तु उच्चारणार्थः, न त्विका निर्देशः, सुपीति संप्रसारणप्रसङ्गात् । चकारात्मृडमृदगुधे॑ति पूर्वसूत्रस्थं क्त्वेति समुच्चीयते । तदाह — सन् क्त्वा चेति । किताविति ।असंयोगाल्लि॑डित्यतस्तदनुवृत्तेरिति भावः । रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् । अविशेषात्सर्वस्येत्यन्ये ।हलन्ताच्चे॑ति सिद्धे रुदविदमुषां ग्रहणंरलो व्युपधा॑दिति विकल्पबाधनार्थम् । ग्रहेस्तु क्त्वायांन क्त्वा से॑डिति निषेधबाधनार्थम् ।स्वपिप्रच्छयोस्तु क्त्वायां कित्त्वेऽपि सनोऽप्राप्तकित्तवविधानार्थम् । रुरुदिषतीत्यादौ सनः कित्वाल्लघूपधगुणाऽभावः ।

Padamanjari

Up

सन्नर्थमिति । तत्र चरितार्थत्वादनिटः क्त्वाः कित्वाविधानं नियमार्थं न भवति ॥