मृडमृदगुधकुषक्लिशवदवसः क्त्वा

1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा कित्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मृड मृद गुध कुष क्लिश वद वस् इत्येतेभ्यः परः क्त्वा प्रत्ययः किद् भवति। <<न क्त्वा सेट्>> (१.२.१८) इति कित्त्वप्रतिषेधं वक्ष्यति, तस्यायं पुरस्तादपकर्षः। गुधकुषक्लिशीनां तु <<रलो व्युपधाद्०>> (१.२.२६) इति विकल्पे प्राप्ते नित्यार्थं वचनम्। मृडित्वा। मृदित्वा। गुधित्वा। कुषित्वा। क्लिशित्वा। उदित्वा। उषित्वा॥

Siddhanta Kaumudi

Up

एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा <{SK3049}> इति वेट् । क्लिशित्वा । क्लिष्ट्वा । उदित्वा । उषित्वा । रुदविद-<{SK2609}> इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ऽक्लिश हिंसायाम्ऽ, अनुदातेद्, दिवादिरकर्मकः; ऽक्लिशू विबाधनेऽ र्क्यादिः सकर्मकः, परस्मैपदी-द्व्योरपि ग्रहणम् । किमर्थं पुनरिदम्, तावता किदेव हि क्त्वा ? तत्राह - न क्त्वा सेडित्यादि । अपकर्षः उ अपवादः नन्विदमेव नियमार्थं भविष्यति-ऽमृडादिभ्य एव क्त्वा किद्भवति नान्येभ्यःऽ इति नार्थः ऽन क्त्वा सेट्ऽ इत्यनेन; कथं लूत्वा पूत्वा-तुल्यजातीयस्य सेटो नियमः ? ननु ऽक्लिशः क्त्वानिष्ठयोःऽ इति विकल्पेनेड्विधानादनिट् क्त्वा सम्भवति ? एवं तर्हि मृडमृदवदवसां कित्वाविधानं नियमार्थम्, इतरेषां तु ऽरलो व्यपधात्ऽ इति विकल्पबाधेन विधिसम्भवान्नियमो न भविष्यति । एवमपि विपरीतोऽपि नियमः स्याद् - मृडादिभ्यः क्त्वैव किदिति । उदित्वा, उषित्वेति । यजादित्वात्सम्प्रसारणम् ऽशासिवसिघसीनां चऽ इति षत्वम्, ऽवसतिक्षुधोरिट्ऽ ॥