त्यदादीनि सर्वैर्नित्यम्

1-2-72 त्यदादीनि सर्वैः नित्यम् एकशेषः

Kashika

Up

index: 1.2.72 sutra: त्यदादीनि सर्वैर्नित्यम्


त्यदादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिरन्यैश्च। सर्वग्रहणं सकल्यार्थम्। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्। स च देवदत्तश्च तौ। यश्च देवदत्तश्च यौ। त्यदादीनां मिथो यद्यत् परं तत्तच् छिस्यते। स च यश्च यौ। यश्च कश्च कौ।

Siddhanta Kaumudi

Up

index: 1.2.72 sutra: त्यदादीनि सर्वैर्नित्यम्


सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ ।<!त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते !> (वार्तिकम्) ॥ स च यश्च यौ । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । स च यश्च तौ ।<!त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि !> (वार्तिकम्) ॥ सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ।<!अद्वन्द्वतत्पुरुषविशेषानामिति वक्तव्यम् !> (वार्तिकम्) ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते ॥

Balamanorama

Up

index: 1.2.72 sutra: त्यदादीनि सर्वैर्नित्यम्


त्यदादीनि सर्वैर्नित्यम् - त्यदादीनि । सर्वैरिति । त्यदादिभिरितरैश्चेत्यर्थः । ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति ।सर्वैः किम् । प्रत्यासत्त्या त्यदादिभिरेव सहोक्तावित्यर्थो मा भूदित्येतदर्थम् । त्यदादीनां मिथ इति । भाष्ये स्थितमेतत् । यत्परमिति । त्यदादिगणे यत्परं पठितं तच्छिष्यत इत्यर्थः । शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूध्र्वं पाठात् परत्वात्स एव शिष्यते इति भावः, पूर्वशेषोऽपीति । परशब्दस्येष्टवाचित्वात्क्वचित्पूर्वमपि शिष्यत इति । भावः । अत्रद्विपर्यन्ताना॑मिति न भवति । अहं च भवांस्चावामिति भाष्योक्तेः । त्यादादित इति । आद्यादित्वात्षष्ठर्थे तसिः । त्यदादीनां स्त्रीशेषेऽपि सहविवक्षितेषु यः पुमान् यच्च नपुंसकं यद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थः । कानीत्याकाङ्क्षायामर्थांत्त्यदादीन्येव सम्बध्यन्ते । सा च देवदत्तश्च ताविति । अत्र तच्छब्दः शिष्यते, समभिव्याह्मतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुंनपुंसकयोरिति ।सहोक्ता॑विति शेषः । परत्वादिति । पुंनपुंसकतो लिङ्गवचनानी॑त्यत्र पुंमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । अद्वन्द्वेति । द्वन्द्वतत्पुरुषविशेषणानां त्यदादीनां स्त्रीशेषेत्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानी॑त्येतन्न भवतीत्यर्थः । द्वन्द्व उदाहरति — कुक्कुटमयूर्याविमे इति ।अयं च इयं च इमे॑इत्यत्र 'त्यदादितः शेषे' इति पुंलिङ्गत्वं न भवति, किंतु विशेष्यनिघ्नतैव विशेषणस्येति बोध्यम् । न च अयं च इयं च इत्यत्र स्त्रीशेष एव न भवति,पुमान् स्त्रिये॑त्युक्तत्वात्, अतः पुंनपुंसकतो लिङ्गविधेः प्रसक्तिः कथमिति वाच्यं,परवल्लिङ्ग॑मिति हि द्वन्द्वतत्पुरुषार्थयोः परवल्लिङ्गविधिः । अतो द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे तदेव लिङ्गमिति भाष्यकैयटयोः स्थितम् । ततश्चकुक्कुटमयूर्याविमे॑इति उदाहरणे — अयं च इयं चेति विग्रहेपुमान् स्त्रिया॑ति पुंशेषेऽपिपरवल्लिङ्ग॑मिति विशेषणत्वात्स्त्रीलिङ्गत्वे सति तस्य 'त्यदादितः' इति पुंवत्त्वं प्राप्तमनेन निषिध्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तुमयूरीकुक्कुटाविमा॑वित्यपि दृश्यते, तत्तुत प्रकृतानुपयुक्तम्, त्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुंलिङ्गतया इयं चायं च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि 'पुमान् स्त्रिया' इति परिशिष्टस्य पुंलिङ्गस्य इदम्शब्दस्य स्त्रीत्वाऽप्रसक्त्या तत्र 'त्यदादितः शेषे' इति पुंस्त्वविधेरप्रवृत्तत्वेनअद्वन्द्वतत्पुरुषविशेषणाना॑मिति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति — तच्चेति । पिप्पल्या अर्धम् — अर्धपिप्पली ।अर्धं नपुंसक॑मिति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्धं च-अर्धपिप्पल्यौ । तच्च सा च ते । तत्र पिप्पल्यर्धंशब्दविशेष्याभिप्रायंत॑दिति नपुंसककत्वम् ।से॑ति स्त्रीत्वं तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्रपुमान् स्त्रिये॑त्यस्य नैव प्रसक्तिः, किन्तुनपुंसकमनपुंसकेनैकव॑दिति नपुंसकं शिष्टम् । तत्रपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य स्त्रीलिङ्गतया तद्विशेषणस्यापिपरवल्लिङ्ग॑मिति स्त्रीत्वम् । तस्य 'त्यदादितः शेषे' इति नपुंसकत्वं प्राप्तं निषिध्यते । एवंच 'ते' इति स्त्रीलिङ्गमेव सिध्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा 'ते' इति द्विवचनस्य न कोऽपि विशेषः, तथाप्यर्धपिप्पल्यस्ता इत्युदाहार्यम् । तच्च तच्च सा चेति विग्रहः ।

Padamanjari

Up

index: 1.2.72 sutra: त्यदादीनि सर्वैर्नित्यम्


सर्वशब्दस्यार्थमाह - त्यदादिभिरन्यैश्चेति । एतदेव प्रकटयति - सर्वग्रहणमिति । त्यादिभिरन्यैश्चेति । यदिदं साकल्यमुक्तं तदर्थमित्यर्थः; अन्यथा प्रत्यासतेः ऽतल्लक्षणश्चेदेव विशेषःऽ इत्यधिकाराद्वा त्यदादिभिरेव सहवचने स्यादिति भावः । स च देवदतश्चेति । ननु देवदतोऽपि सामान्यविवक्षायां तच्छब्देनैव निर्देअष्टुंअ शक्यते, ततश्च सरूपाणामित्येव सिद्धम् । न चारब्धेऽपि सूत्रे वृतौ विशेषोऽन्तर्भावयिन्तुं शक्यः, तावित्यस्य सरूपसाधारणत्वाद्विरूपाणां च नानाविधात्वात्, सत्यम्; तद्देवदतावित्यादिद्वन्द्वनिवृत्यर्थं वचनम्, अन्यथा ऽतत्पुत्रस्तदीयःऽ इत्यादिवृत्यन्तरवद् द्वन्द्वोऽपि स्यात् । यद्यत्परमिति । त्यदादिपाठे शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यावित्यादि । भाष्ये तु ऽपूर्वशेषः खल्वपि दृश्यते - स च यश्च तौऽ इत्युक्तम् । इह चाहं च भवांश्चावामिति भवतीत्याहुः । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वातसिः, त्यदादीनां शेषे सह विवक्षितो योऽर्थः पुमान्, यच्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । स च देवदत च तौ, सा च देवदतश्च तौ, तच्च देवदता च ते । पुंनपुंसकयोस्तु सहविवक्षायां परत्वान्नपुंसकवशेन व्यवस्था । तच्च देवदतश्च ते, इह स च कुक्कुटः सा च मयूरी - कुक्कुटमयूर्यावेते, अर्धं पिप्पल्यास्तद् अर्धंपिप्पली च सा अर्धंपिप्पल्यौ ते इति परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशातद्विशेषणस्यापि सर्वनाम्नस्तदेव लिङ्गं भवति ॥