श्वशुरः श्वश्र्वा

1-2-71 श्वशुरः श्वश्र्वा एकशेषः अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्यतरस्यामिति वर्तते। श्वश्र्वा सहवचने श्वशुरशब्दः शिष्यतेऽन्यतरस्याम्। श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वश्रूश्वशुराविति वा॥

Siddhanta Kaumudi

Up

श्वश्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वाशुरश्च श्वाशुरौ । श्वश्रूश्वाशुरौ वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<श्वशुरः श्वश्र्वा>> - नन्वस्तु हल्सूत्रे लकारस्य इत्संज्ञा । ततः किमित्यत आह — आदिरन्त्येन सहेता । अन्ते भवः अन्त्यः । तेन इता सहोच्चार्यमाणः आदिः अण् अच् इत्यादिरूपः संज्ञेत्यर्थः । तत्रयस्मात्पूर्वं नास्ति परमस्ति स आदिः, यस्मात्परं नास्ति पूर्वमस्ति सोऽन्तः॑ इति आद्यन्तवत्सूत्रे भाष्यम् । तदिहाद्यन्तशब्दाभ्यां मध्यगा आक्षिप्यन्ते । अतस्तेषां संज्ञेति लभ्यते ।स्वं रूपं॑मिति पूर्वसूत्रात्स्वमित्यनुवर्तते । तच्च षष्टयन्ततया विपरिणम्यते । तदेतदाह — अन्त्येनेतेत्यादि । स्वस्य चेति । अत्र च स्वशब्देन संज्ञाकोटि प्रविष्ट आदिरेव परामृश्यते, नत्वन्त्योऽपि, अन्त्येनेति तृतीयया 'सहयुक्तेऽप्रधाने' इति विहितया तस्य अप्राधान्यावगमात्, सर्वनाम्नां चोत्सर्गतः प्रधानपरामर्शित्वात् । न च इक् उक् इच् यय् मयित्यादिप्रत्याहाराः कथं स्युः, इकारादीनामादित्वाऽभावादिति वाच्यं, न हि सूत्रापेक्षमिहादित्वं किंतु आद्यन्तशब्दाक्षिप्तसमुदायापेक्षम् । ततश्च ऐउणिति इकारमारभ्य ॠलृगिति ककारपर्यन्तं वर्णसमुदायं बुद्ध्या परिकल्प्य तदादित्वमिकारस्य संभावनीयम् । एवमिजादिष्वपि । तथा अन्त्यत्मपि बुद्धिकल्पितसमुदायापेक्षमेव न तु सूत्रापेक्षम् । ततश्च रप्रत्याहारः सुग्रहः । अन्यथा लण्सूत्रे अकारस्याऽन्त्यात्वाभावात्स न स्यात् । अत्र आद्यन्तशब्दयोरन्यतराऽभावे मध्यगानामिति न लभ्येत । आदिरित्यस्याऽभावे हि अन्त्येनेता सहोच्चार्यमाणो वर्णोऽन्त्यात्प्राग्भाविनां वर्णानां संज्ञेत्येव लभ्येत । ततश्च हल्प्रत्याहारे अकारादीनामपि ग्रहणं स्यात्, अन्त्यलकारात्पूर्वभावित्वाविशेषात् । अन्त्येनेत्यस्याऽभावे तु आदिरिता सहोच्चार्यमाण आदिरूध्र्वभाविनां वर्णानां संज्ञेत्येव लभ्येत । ततश्च अच्प्रत्याहारे हकारादीनामपि ग्रहणापत्तिः, आदेरकारादूध्र्वभावित्वाऽविशेषात् । उभयोरुपादाने तु मध्यगानामिति लभ्यते इत्यदोषः । परस्मिन् सति यस्मात्पूर्वो नास्ति स आदिः, पूर्वस्मिन् सति यस्मात्परो नास्ति सोऽन्त्य इति भाष्ये आद्यन्तशब्दार्थनिर्वचनेन आद्यन्तयोर्मध्यगाऽविनाभूतत्वेन ताभ्यां मध्यगानामाक्षेपात् । यद्यपि द्वयोरप्याद्यन्तशब्दौ संभवतः, उक्तनिर्वचनाऽविरोधात्, तथापि नेह द्वयोराद्यन्तशब्दौ भवतः । तथा सति हि अन्त्येनेता सह उच्चार्यमाण आदिः स्वस्य आदेः संज्ञेत्येव लभ्येत, उक्तरीत्या स्वशब्देन अन्त्यस्य परामर्शाऽसंभवात् । ततश्च उणित्युकारस्य संज्ञेति पर्यवस्येत् । तत्र एकस्य वर्णस्य वर्णद्वयात्मकसंज्ञाविधानं व्यर्थमापद्येत, गौरवात्, प्रत्याहाराणां व्यवहारलाघवार्थत्वात् । अतो मध्यमसत्त्व एवाऽत्र आद्यन्तशब्दाविति ताभ्यां मध्यगानामिति लभ्यते । इतेति किम् । अम्प्रत्याहारो ञमङणेति मकारेण मा भूत् । नचैवमपि सुट्प्रत्याहारः 'टा' इति टकारेण किं न स्यात्, टान्तसमुदायापेक्षया तस्य अन्त्यत्वादिति वाच्यम् । प्रथमातिक्रमणे कारणाऽभावेन सुट्प्रत्याहारस्य औटष्टकारेणैव ग्राह्रत्वात् । उक्तं च जैमिनिना — ॒प्रथमं वा नियम्येत कारणस्यानतिक्रमात् ।॑ इति । विस्तरभयाद्विरम्यते । इति हल्संज्ञायामिति । हल्सूत्रे लकारस्य हलन्त्यमित्यावृत्तप्रथमसूत्रेण इत्संज्ञायां सत्यामादिरन्त्येनेति हल्संज्ञासिद्धौ चतुर्दशसूत्र्यामन्त्यणकारादिवर्णानां हल्त्वं सिद्धमित्यर्थः ।

Padamanjari

Up

पितृश्वशुरौ मातृश्वक्षूभ्यामिति नोक्तम्, लाघवार्थम् । श्वश्रूशब्दोऽव्युत्पन्नं प्रातिपदिकं श्वशुरस्योकाराकारलोपश्चेत्यूङ्न्तत्वे प्रत्ययान्तत्वाद् ब्रह्मबन्धूरित्यादिवदेकदेशाभावाच्चाप्रातिपदिकत्वेऽपि श्वश्रेत्यस्मादेव निर्देशाल्लिङ्गात् सुपस्तद्धिताश्च भवन्ति । श्वश्रूश्वशुराविति । अभ्यर्हितत्वादेव पूर्वनिपातः, ऽश्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिताऽ अत्रापि दम्पत्योर्जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । अनारम्भपक्षेऽपि श्वश्रूश्वशुरावित्यभिधाने द्वन्द्वस्त्विष्यत वेति, नार्थ एतेन ॥