पिता मात्रा

1-2-70 पिता मात्रा एकशेषः अन्यतरस्याम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्यतरस्यामिति वर्तते नैकवदिति। मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम्। माता च पिता च पितरौ, मातापितराविति वा॥

Siddhanta Kaumudi

Up

मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥

Laghu Siddhanta Kaumudi

Up

मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अभ्यर्हितत्वान्मातुः पूर्वनिपातः, ऽपितुर्दशगुणं माता गौरवेणातिरिच्यतेऽ । पितरावित्यभिधानं जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । एकशेषारम्भेऽपि द्वन्द्वस्त्विष्यत एवेति नार्थ एतेन ॥