नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्

1-2-69 नपुंसकम् अनपुंसकेन एकवत् च अस्य अन्यतरस्याम् एकशेषः तल्लक्षणः चेत् एव विशेषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तल्लक्षणश्चेदेव विशेष इति वर्तते। नपुंसकानपुंसकमात्रकृते विशेषेऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच्चास्य कार्यं भवत्यन्यतरस्याम्। शुक्लश्च कम्बलः शुक्ला च बृहतिका शुक्लं च वस्त्रं तदिदं शुक्लम्। तानीमानि शुक्लानि। अनपुंसकेनेति किम्? शुक्लं च शुक्लं च शुक्लं च शुक्लानि। एकवच्चेति न भवति॥

Siddhanta Kaumudi

Up

अक्लीबेन सहोक्तौ क्लीबं शिष्यते तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । तानीमानि शुक्लानि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्>> - नपुंसकम् । अन्यतरस्याङ्ग्रहणमेकवदित्यनेनैवान्वेति, आनन्तर्यात्, नत्वेकशेषेणेत्याह — तच्चेति । तल्लक्षण एवेति । नपुंसकत्वाऽनपुंसकत्वमात्रकृतवैरूप्यं चेदित्यर्थः । शुक्लः पटः शुक्ला शाटी शुक्ल वस्त्रमिति । पटशब्दसमभिव्याहाराच्छुक्लशब्दः पुंलिह्गः, शाटीशब्दसमभिव्याहारात्स्त्रीलिङ्गः, वस्त्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः,गुणे शुक्लादयः पुंसि गुणिलिह्गास्तु तद्वती॑त्यमरोक्तेरिति भावः । स च सा च तच्च तत् ।अयं च इयं च इदं च इदम् । शुक्लश्च शुक्ला च शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते एकवच्चा भवन्ति॥ तानीमानि शुक्लानीति । नपुंसकत्वे एकशेषे सति एकवत्त्वाऽभावे रूपाणि । न चेतरेतरयोगविवक्षायां द्विबहुवचनान्तयोः, समाहाद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वादेकवदिति व्यर्थमिति वाच्यम्, अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन ओदनश्च ओदनं च तयोः समाहारे ओदनमिति न भवति । ओदनशब्दो ह्रर्धर्चादिः । ओदनश्च ओदनं चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति न, अनभिधानात् । एवंच । क्वचिदनभिधानस्यावश्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थत्वं च#आश्रित्य एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् ।

Padamanjari

Up

शुक्ला च शुक्लं चेति । विभक्तौ विभक्त्यन्तयोश्चासारूप्यादप्राप्त एकशेषः, शुक्लं च शुक्लश्चेति विभक्त्यन्तयोरसारूप्यम् । विभक्तौ सारूप्येऽपि पुंनपुंसकयोः पर्यायः स्यादिति वचनम्, एकवद्भावार्थं च । तल्लक्षणश्चेदेव विशेष इति वर्तत इति । शुक्लं च कृष्णश्चेत्यत्र मा भूत् । एवाकारस्तु हिमहिमान्यौ अरण्यारण्यान्यावित्यत्र मा भूदिति । ऽअत्र हिमारण्ययोर्महत्वेऽ इति महत्वमपरो विशेषः, अन्यतरस्यांग्रहणमानन्तर्यादेकवच्चेत्यनेन सम्बन्ध्यते, न त्वेकशेषेण चेत्याह-एकवच्चेत्यादि । अस्य ग्रहणमेकवच्चेत्यस्योतरत्रानुवृत्तिर्मा भूदिति । इह शुक्लेन च वस्त्रेण शुक्लेन च कम्बलेन तेनानेन शुक्लेनेति तल्लक्षणविशेषाभावादेकशेषो न प्राप्नोति, सामान्यविवक्षायामेकशब्दत्वमेकवचनं नपुंसकत्वं च भविष्यति । यद्येपम्, तदिदं शुक्लमित्यत्राप्येवमेव भविष्यति, नार्थ एतेन ? द्वन्द्वनिवृत्यर्थं तु वचनम् । अनपुंसकेनेति किमिति । नपुंसकेनापि सहवचने सरूपाणामित्येकशेषेण भवितव्यमिति प्रश्नः, तेन यथा स्यादेनेन मा भूदिति प्रत्युतरम् । को न्वत्र विशेष इत्यत्र आह- एकवच्चेति ॥