भ्रातृपुत्रौ स्वसृदुहितृभ्याम्

1-2-68 भ्रातृपुत्रौ स्वसृदुहितृभ्याम् एकशेषः तल्लक्षणः चेत् एव विशेषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यथासंख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्याम्। स्वस्रा सहवचने भ्रातृशब्दः शिष्यते। भ्राता च स्वसा च भ्रातरौ। दुहित्रा सहवचने पुत्रशब्दः शिष्यते। पुत्रश्च दुहिता च पुत्रौ॥

Siddhanta Kaumudi

Up

भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भ्रातृपुत्रौ स्वसृदुहितृभ्याम्>> - भ्रातृपुत्रौ । स्वसृदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपत्रौ शिष्यते । स्वरूपतोऽपि वैरूप्यादप्राप्तौ वचनम् ।

Padamanjari

Up

इदमपि द्वन्द्वनिवृत्यर्थं वचनम् । स्वसृशब्दस्य ह्यएकापत्यत्वं निमितम्, दुहितृशब्दस्यापत्यत्वमेव । भ्रातृपुत्रशब्दयोः स्त्रीत्वपुंस्त्वं चोभयत्र विशेषः । तत्र ऽभ्रातरौ पुत्रौऽ इति स्त्रीपुंस्त्वाविवक्षायां सिद्धं स्वसृदुहित्रोरभिधानम् । एकशेषारम्भेऽप्ययमेव निर्वाहः ॥